________________
तर्कतरङ्गिणी
१६७ [१६ ]॥ प्रमेयपदार्थनिरूपणम् ॥ अथ सूत्रसंगत्योद्देशानुक्रमेण प्रमेयप्रस्तावात् प्रमेयसूत्रं-आत्मेति । परस्परं प्रमेयाणां पदार्थावच्छेदकभेदमादाय पृथक्त्वेनोपादानम् । (I) आत्मा ।
जातित्वमिति । सुखादिसमवायिकारणतावच्छेदकलक्षणं व्यञ्जकत्वेनात्मत्वं जातिः । सा तु प्रत्यक्षा । तस्या योगिव्यक्तौ वृत्तित्वात् । अनुकूलतर्कस्तु कार्यकारणभाव एव । आत्मत्वेन सुखत्वादिना च कार्यकारणभावावगमात् ।
___ ननु परमात्मनि ईश्वरात्मनि कथमात्मत्वम् ? तत्र सुखाद्यभावात्, यदि तत्र सुखमङ्गीक्रियते तदा तस्यापि नित्यत्वादुक्तरूपकार्यकारणभावानुरोधेन तत्रात्मत्वं जाति न सिध्यतीति । अत्र तस्य सुखे नित्ये प्रमाणं वेद एव । यथा 'नित्यविज्ञानमानन्दं ब्रह्म' इति आनन्दपदेन सुखमेव ग्राह्यम् । तत्रापि नित्यत्वस्यान्वयादिति चेत्, न । ईश्वरेऽऽत्मत्वजातेरनङ्गीकारात् । अथवा तत्साधारणं ज्ञानेच्छाकृत्यपि कारणतावच्छेदकत्वेन तत्राप्यात्मत्वजातिः सिध्यति ।
सामान्यग्रहणमिति । लक्षणं तु आत्मनः आत्मत्वमेव । तस्यैवासाधारणधर्मत्वात् । सामान्यपदमात्मत्वस्य जातित्वबोधार्थम् । उपाधि(धे)श्च भ्रमनिरासः कृतः । निर्बाधकसामान्यत्वात्। तज्जातिरेवेति भावः । मतुबिति । इदं चात्मत्वस्य सम्बन्धविशेषणसमवायसम्बन्धेन लक्षणत्वद्योतनार्थम् । तथा चात्मत्वजाति समवायीतयात्मनः लक्षणम् । अन्यथा सम्बन्धविशेषणात्मत्वं लक्षणं न क्रियते । तदाऽऽत्मत्वस्य शरीरादावपि संयुक्तसमवायेन वर्तमानत्वात् । आत्मनः इदं लक्षणं कर्तुं न युक्तम् । आत्मनि संयुक्तसमवायेन तस्य वर्तमानत्वात् ।
न च तयोरिति । शरीरत्वेन्द्रियत्वयो ऑतित्वं नास्ति । पृथिव्यादिना जातिसाङ्कर्यात् । यत्र यत्र पृथिवीत्वं तत्र तत्र शरीरत्वं नास्ति । घटादावभावात् । यत्र यत्र शरीरत्वं तत्र तत्र पृथिवीत्वं नास्ति । तेज(जो)शरीरे व्यभिचारात् । उभयोः, सङ्कर पार्थिवशरीरे इति । तथा च जातिसाङ्कर्यादेवेन्द्रियत्वं न जातिः । तेजसत्वादिना साङ्कर्यात् ।
विभुरितीति । यदि शरीरमात्मा स्यात्, तदाऽऽत्मनो विभुत्वं न स्यात् । आत्मनश्च विभुत्वं युक्तिसिद्धम् । तथाहि-'आत्मा विभुः, देशान्तरसंस्थितवस्तुभोजकत्वात्', व्यतिरेकी । अन्यथा आत्मनो विभुत्वाभावेन काश्मीरदेशोत्पन्नवस्तुनो गुर्जरस्थपुरुषस्य भोगो न स्यात् । तत्रस्थवस्तुनो हि १. B च. २. B निर्बाधसामा.. ३. B -त्वात् । ग्रहणमिति लक्षणं चात्मने (नः ! )ऽऽत्मत्वमेव । तस्योवाद (?) (तस्य योगाद् !)जातिरिति भावः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org