SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ तर्कतरङ्गिणी अत्र तु' सन्देहः-प्रामाण्यसन्देहः साधारणधर्मदर्शनज्ञः । साधारणधर्मस्तु ज्ञानविषयत्वरूपः । तथा चानुव्यवसायेऽपि यद्यपि प्रामाण्यं निश्चितमेव, तथापि ज्ञानविषयकत्वरूपसामान्यधर्ममादाय प्रामाण्यसन्देहो भविष्यति, समानधर्मदर्शनरूपकारणस्य सत्त्वात् । १६६ इदं दूषयति-समानेति । यदि समानधर्ममात्रेणापि सन्देहो जन्यते तदा सन्देहस्य कुत्राप्युच्छेदो न स्यात् । समानधर्मस्य कस्यापि कुत्रचित् सत्त्वात् । तथा च सर्वत्र सन्देह एव स्यात् [न] निश्चय इति । उपसंहरति तस्मादिति । न्यायमतेऽयमुपसंहारः - निश्चिते यः सन्देहः सः प्रामाण्यसन्देहादेव भवति । यतः सन्देहं प्रत्येतादृशं ज्ञानं प्रतिबन्धकं भवति । यथा चाह- अप्रामाण्यशङ्केति । तथा च यत्राप्रामाण्यशङ्काकलङ्कशून्यो यो निश्चयः सः सन्देहं प्रति प्रतिबन्धको भवति । न तु निश्चयमात्रम्। जायते तत्र यद्यपि विशेष्यरूपो निश्चयस्तिष्ठति तथापि तत्राप्रामाण्यशङ्काकलङ्कशून्यरूपं विशेषणं नास्ति । तथा च विशेषणाभावः । यतो विशष्टिभावो निश्चयाभावो वर्तत एव । तथा चाभ्यासदशायां प्रामाण्यस्य स्वतोग्रहो प्रामाण्यसन्देहोऽप्रामाण्य-शङ्काकलङ्कशून्यरूपनिश्चयाभावेन कर्तव्यः । तेन सन्देहं प्रति तादृशविशिष्टं प्रतिबन्धकं तादृशाभावश्च कारणमिति सन्देहोऽप्युपपद्यत एव । स्वतस्त्वमिदं दूषयित्वोपसंहरति-तस्मादितिति । तथा च पूर्वं यदुक्तं रजतं रजतत्वेन जानामीत्यनुव्यवसाये रजतत्त्ववति रजतत्वविशेष्यकत्वरूपं प्रामाण्यं विषयो भवतीति प्रामाण्यस्य स्वतस्त्वम् । इदमेव दूषयति- नन्विति । यथेदं रजतत्वेन जानामीत्येव लक्षणोऽनुव्यवसाय: ५ । न तु रजतलक्षणं विशेष्यं रजतत्वेन जानामीत्यनुव्यवसायः । तथा च यथा तादृशं ज्ञानं जातं तदा सन्देहो न स्यादित्युक्तप्रायम् । तथा च यद्यप्यनुव्यवसाये रजतत्वादिप्रकारकत्वं विषयीभूतं भवति तथापि द्वितीयो अंशो रजतादिविशेष्यकत्वरूपो विषयोऽनुव्यवसायेन विषयीभवतीति परत एव प्रामाण्यं सन्देहानुपपत्त्या स्वीकर्तव्यमिति भावः । इति प्रामाण्यव्याख्या । श्रीमन्नारायणमिश्रात्मजपुष्करमिश्रमुखादधिगम्यवाचकगुणरत्नगणिना व्याख्यातम् [ प्रमाणम् ]। श्रीमदनविशालाख्य स्वशिष्याधीतिहेतवे । गुणरत्नगणिः चक्रे टीकां तर्कतरङ्गिणीम् ॥ १. B omits तु. २. B omits यद्यपि ३ B -रूपप्रामाण्यं. ४. A त्येवं. ५. Pl. add न तु रजतलक्षणं विशेष्यं रजतत्वेन जानामीत्यनुव्यवसायः । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002581
Book TitleTarkatarangini
Original Sutra AuthorN/A
AuthorGunratna, Vasant G Parikh
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy