________________
तर्कतरङ्गिणी
१६५
प्रामाण्यसन्देहो न स्यात् । भवन्मते प्रामाण्यस्य निश्चितत्वात् । निश्चिते प्रामाण्ये सन्देहो न स्यात् । न चेति । तथा च प्रामाण्यसन्देहः । प्रामाण्यस्य यज्ज्ञानं तत्र यत्प्रामाण्यं तत्सन्देहात् । व्यवसायनिष्ठप्रामाण्यस्यापि सन्देहो भवति । तथा च प्रथमतो घटोऽयमिति ज्ञानं जातम्, तदनन्तरं द्वितीये क्षणे घटं घटत्वेन जानामीत्यनुव्यवसायः । अनेनानुव्यवसायेन घटोऽयमिति व्यवसायरूपं यज्ज्ञानं तन्निष्ठ प्रामाण्यं विषयीक्रियते । तथा च व्यवसायनिष्ठप्रामाण्यस्य ज्ञानमनुव्यवसायरूपम् । तन्निष्ठं- अनुव्यवसायनिष्ठं प्रामाण्यमन्यदेव व्यवसायनिष्ठप्रामाण्यादतिरिक्तमेव ।
तथा चानुव्यवसायनिष्ठप्रामाण्यस्य प्रथमतः सन्देहो जायते । घटं घटत्वेन जानामीतिज्ञानं प्रमाणम् । न चेत्याकारकः अनुव्यवसायनिष्ठप्रामाण्यस्यानिश्चितत्वात् । तथा च व्यवस्यायनिष्ठ प्रामाण्ये निश्चितेऽपि व्यवसायनिष्ठप्रामाण्यज्ञानं यदनुव्यवसायरूपं नियतप्रामाण्यं तत्सन्देहाहित- तत्सन्देहकृतव्ययवसायनिष्ठप्रामाण्यस्यापि सन्देहो भवतीति न च वाच्यम् ।
तत्रापीति । व्यवसायनिष्ठप्रामाण्यविषयकानुव्यवसायादौ अपि भवन्मते प्रामाण्यसन्देहानुदयात् । यया युक्त्या व्यवसायनिष्ठप्रामाण्यं स्वतो ग्राह्यमित्युक्तं, सा युक्तिरत्राप्यनुव्यवसायेऽपि तिष्ठति । गुरूमते प्रामाण्यं स्वाश्रयेणैव विषयीक्रियते । तथा चानुव्यवसायनिष्ठं यत्प्रामाण्यं तस्याश्रयो भवत्यनुव्यवसायस्तेनैव स्वनिष्ठं प्रामाण्यं विषयीक्रियते । ततोऽनुव्यवसायनिष्ठप्रामाण्यस्यापि निश्चितत्वात् ।
तथा च प्रामाण्यज्ञाननिष्ठप्रामाण्यस्य निश्चितत्वात् प्रामाण्यज्ञाननिष्ठ प्रामाण्यसन्देहाभावेन व्यवसायनिष्ठप्रामाण्यसन्देहोऽपि न सम्भवतीति भावः । अन्यथा स्वज्ञानानिष्ठप्रामाण्यसन्देहेनापि यदि विषयसन्देहः क्रियते तदा भूतले घट इति ज्ञाने प्रामाण्यसन्देहानन्तरं भूतले घटये न वेति सन्देहः स्यात्। अन्यसन्देहादन्यसन्देहो न भवति । तत्रोभयकोटिज्ञानाभावात् । तथा च प्रामाण्यस्य परतस्त्वे संशयानुपपत्तिरेव बाधिका । मीमांसकः संशयोपपत्ति प्रकारान्तरेण शङ्कते न चेति । तथा च सन्देहस्त्रिविधिः । एकः समानधर्मदर्शनजः (१), अन्योऽसाधारणदर्शनज: (२) एको[: तृतीय: ]विप्रतिपत्तिजन्यः (३) ।
प्रथमो यथा- स्थाणुर्वा पुरुषो वेत्यादौ । अत्र साधारणधर्मो भवत्युच्चैस्त्वरूपः । स स्थाणुपुरुषसाधारण इति (१) । द्वितीयो यथा - शब्दो नित्योऽनित्यो वा । 'अत्रासाधारणधर्मो भवति नित्यत्वानित्यत्वव्यावृत्तः शब्दत्वरूपः । तस्य शब्दातिरिक्तेऽनित्ये नित्ये वाऽभावेनासाधारण:' [२]। तृतीयो यथा ज्ञानप्रामाण्यमित्यादौ (३) ।
१. A omits प्रामाण्ये. २. A प्रामाण्येऽन्यदेव. ३. B omits अपि. ४. Bomits अन्य ५ B - भावादिति । ६. B Omits अत्र and reads असा.. ७ B -धारण इति ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org