________________
१६४
तर्कतरङ्गिणी तेनैव गृह्यते । तन्मते प्रामाण्यविषयकज्ञानस्यायमाकार इत्याह-सर्वस्येति । तथा च घटत्वेन घटमहं जानामीत्यत्र द्वितीयार्थो घटमिति विशेष्यम् । तृतीयार्थो घटत्वेनेतिरूपः प्रकारः । तथा च घटत्ववति घटत्वप्रकारकत्वरूपं प्रामाण्यं भातमेव ।
ननु घटत्वप्रकारकत्वं घटविशेष्यकत्वं ज्ञाने विषयो भवतीति तथा च प्रामाण्यं न गृहीतमेवेति चेत, अत आह-घटविशेष्यत्वे सतीति सत्यन्तं यत्र पटे घटज्ञानं जातं तत्र घटत्वप्रकारत्वमस्तीति भ्रमेऽतिव्याप्तिः स्यात् । अतः सत्यन्तम् । तथा च तस्य घटविशेष्यत्वं नास्ति । तत्र पटविशेष्यकत्वात्। तस्य चेति । तथा चेदं यथा घटत्वेन घटं जानामीति प्रतीतिर्जायते तदा प्रामाण्यग्रहो जात एवेति स्वतस्त्वं प्रामाण्यस्येति सिद्धम्।
भाट्टमते हार्दै दर्शयति-भाट्टानामिति' ज्ञाततात्वलिङ्गजन्यानुमितेरयमेवकारः। यथा घटं घटत्वेन जानामि, घटत्ववति घटत्वप्रकारकज्ञानजन्यज्ञातताश्रयत्वात् । यत्र यत्र घटत्ववति घटत्वप्रकारकज्ञानजन्यविषयत्वाभावः', तत्र तत्र घटत्ववति घटत्वप्रकारकज्ञानजन्यज्ञातताश्रयत्वाभावः । यथा पट इति । तदनन्तरं परामर्श:-यथा घटत्ववति घटत्वप्रकारकज्ञानविषय
(त्व)व्याप्य घटत्ववति घटत्वप्रकारक ज्ञानजन्यज्ञातताश्रयत्ववा-नयमितिरूपं. तदनन्तरमनुमितिर्जायते-घटं घटत्वेन जानामीत्येतादृशी । अत्रापि द्वितीयार्थस्य विशेष्यत्वात् तृतीयार्थस्य प्रकारत्वात् । तेनास्यामप्यनुमितौ घटत्ववति घटत्वप्रकारकत्वरूपं प्रामाण्यं भातमेव । एतत्स्पष्टयतिज्ञाने इति । ज्ञानस्य यज्ज्ञानमनुव्यवसायोऽनुमितिरूपं वा गुस्मते तत्स्वरूपं वा तद्विशेष्यकत्वरूप प्रामाण्यस्येदमेव निर्णायकम् । तन्निर्णयार्थमेतदन्या सामग्री न कल्प्यते । प्रामाण्यनिर्णायकस्य ज्ञानज्ञानातिरिक्तस्याभावात् । ज्ञानज्ञानातिरिक्तेन वस्तुनाऽनुमानादिना नैयायिकाभिमतेनाग्रहणात् ।
नन्वग्रह एव कथमिति चेत्, तादृशानुमानात् । पूर्वमेव प्रामाण्यग्राहकसामग्रीसत्त्वेन पक्षज्ञानादिरूपसामग्रीसत्त्वात् प्रामाण्यग्रहात् । तथा च सिद्धिसत्त्वेऽनुमिति न जायते । तत्र पक्षताभावादिति।
मुरारीति । ताहगेवेति अनुव्यवसायोऽपि घटत्वेन घटं जानामीतिरूप एव प्रामाण्यशरीर घटकीभूताः६ ये पदार्थाः घटघटत्वे एतयो सम्बन्धः पुनर्घटत्वीयत्वं घटनिरुपितविशेष्यीयत्वं घटत्वनिरूपिते समवायनिरूपितसंसर्गीयत्वमित्येते पदार्था भवन्ति प्रामाण्यशरीरघटकीभूताः । एतेषामनुव्यवसाये भासमानत्वात्प्रामाण्यं भासत इति मीमांसकमतहार्दम् ।
___ अत्र तार्किकाः वदन्ति-यदि प्रवृत्ते पूर्वमेव प्रामाण्यं स्वत एव गृह्यते तदा घटादिज्ञानानन्तरं १. B omits च. २. B omits पट. ३. This प्रतीक is not found in त. भा. प्र. ४. B -नुमितिर. ५. B omits जन्य. ६. B भूयः.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org