________________
१६३
तर्कतरङ्गिणी फलवत्प्रवृत्तिजनकत्वरूपो हेतुर्वर्तते तथा तद्वति तत्प्रकारत्वरूपं साध्यमस्तीति भावः । बाधापत्तेरित्यपि दृष्टव्यमिति जलादिज्ञाने प्रमाकरणत्वरूपसाध्याभावे बाध इत्यर्थः ।
___ अथ मीमांसको नैयायिकं प्रति शङ्कते-नन्विति तथा च यत्र क्षणे प्रवृत्ति न जाताऽग्रे च प्रवृत्ति भविष्यति, तस्मिन्नपि काले कदाचिज्ज्ञानस्य प्रामाण्यं गृह्यत इति नैयायिकेनापि स्वीक्रियते । अभ्यासदृशापन्नकाले प्रवृत्तेः पूर्वमपि प्रामाण्यं गृह्यते । अथ च समर्थप्रवृत्तिजनकत्वलिङ्गव्यतिरेकेणापि प्रामाण्यं कथं गृह्येत ? तत्र हेतोरभावात् । अथ चानेन लिङ्गेन प्रामाण्यग्रहो न सम्भवति । तद्व्यतिरेकेणापि कार्यसम्भवे कारणताव्यभिचार इत्याशङ्कार्थः ।
स्वत एवेति । तथा च प्रामाण्यस्य स्वतस्त्वमुचितमिति भावः ।।
नैयायिकः समाधत्ते अनभ्यासदशेति । तथा चानभ्यासदशापन्नं यदज्ञानं स पक्षः । अनभ्यासदशापनत्वं व्युत्पादयति-अनवधृतेति अनवधृतं-अनिश्चितं यत्प्रामाण्यं तत्सजातीयत्वम् । तथा च यज्जलज्ञानं जातं तत्र यत्प्रामाण्यं तत्रानवधृतसजातीयत्वं तिष्ठत्येव । यत्र ज्ञाने प्रामाण्यनिश्चयो न जातस्तद् सजातीयत्वम् । साजात्यं तदधिकरणं ज्ञानत्वेन । तथा नैयायिकैरपि अनुव्यवसायेन प्रामाण्यं विषयीक्रियते। इति' स्वीक्रियतेऽभ्यासदशायामेव ।
यथा प्रथमतो घटेऽनुमितिज्ञानं जातं तदनन्तरं घटमहं जानामीत्यनुव्यवसायो वृत्तः, तदनन्तरं द्वितीयानुव्यवसायेन प्रामाण्यप्रकारकं ज्ञानं जायते-यथा 'इदं ज्ञानं प्रमा'-इत्यभ्यासदशायाम् । एतादृशज्ञानसाधारणः पक्षो न क्रियते । किन्त्वनभ्यासदशापन्नस्य ज्ञानस्य पक्षत्वम् । तथा चानभ्यासदशापन्नज्ञानस्य प्रामाण्यमनुमानेनैव गृह्यते ।।
__ अभ्यासदशेति - विचारयति । अवधृतेति । ज्ञातप्रामाण्यं सजातीयत्वं सजातीयपदं च येन द्वितीयानुव्यवसायेन प्रामाण्यं विषयोक्रियते, तत्र या वर्तते जातिरनुव्यवसायत्वं सा तु प्रथमानुव्यवसायेऽपि तिष्ठति । तथा च प्रथमानुव्यवसायोऽनभ्यासदशापन्नो भवति । अभ्यासदशापन्नस्तु तदैव यदा द्वितीयानु व्यवसायस्योत्पत्तिर्भवति, नान्यथेति । सजातीयपदेनैवैतावानर्थः प्राप्यते । .
अयमत्र भावः-यत्रानुव्यवसायद्वयत्रयादिकं जातं तत्रानुव्यवसायेनैव प्रकारप्रामाण्यं गृह्यते । यत्र व्यवसायमानं तत्रानुमानमात्रेणेति हृदयम् ।
अत्रेदंत्वमिति । पूर्वमीमांसकमतं व्युत्पादयति । प्रभाकराणामिति । तथा च प्राभाकारमते स्वप्रकाशरूपं यज्ज्ञानं तेन यथा स्वस्वरूपं गृह्यते तथा स्वप्रकाशत्वात् प्रामाण्यमपि
१. B omits तथा च. २. B omits इति स्वीक्रियते. ३. B -व्यवसायिद्वय..
____ Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org