________________
१६२
तर्कतरङ्गिणी तथापि प्रमेयत्वसामान्यप्रत्यासत्तिजन्यं ज्ञानं प्रमेयमात्रस्य तिष्ठत्येव प्रमेयमात्रान्तं प्रामाण्यमपि भवत्येवेति।
अथ च नैयायिकैर्योऽर्थो स्वीक्रियतेऽथवा मनःपदशक्तिग्रहो मनसि स्यात् । शक्तिग्रहस्तु यो पदार्थः प्रत्यक्षादिना जायते तत्रैव भवति । मनसोऽप्रत्यक्षत्वात्तत्रानुमानमपि न सम्भवति । मनसः सामान्यज्ञानाभावात् । तथा च मनः पदस्य शक्तिग्रहः कथम् ?
तत्र' नैयायिकाः समादधुः-अत्र मोष एव स्वीकर्तव्यः । तथाहि मोषस्यैवायमर्थः । यथा प्रमेयत्वसामान्यलक्षणप्रत्यतासत्त्या चैत्रस्य सर्वविषयकं ज्ञानं जातम् । इदं च प्रमेयत्वप्रकारकं ज्ञानं भवति । तदनन्तरं मनः-पदशक्तिग्रहकाले पूर्वानुभूतप्रमेयत्वस्य मनसः मोषो जातः । तस्य प्रमेयत्वांशस्य स्मरणं न जातमिति, यावत्पूर्वं यतः सामान्यलक्षणप्रत्यासत्त्या प्रमेयत्वप्रकारकं यत्प्रमेयमात्रस्य ज्ञानं जातमभूत्, तदनन्तरं तेन ज्ञानेन प्रमेयत्वेन रूपेण प्रमेयमात्रघटादिविषयकः संस्कारो जन्यते । तेन संस्कारेण मनःपदशक्तिग्रहकाले मनोमात्रस्य स्मरणं जन्यते । न च घटादिविषयकमपि स्मरणं तेन जननीयमिति वाच्यम् । तदंशे घटाद्यंशेऽन्यथानुपपत्त्या मोषः स्वीक्रियते । घटाधुबोधिकाऽदृष्टादिका सामग्री न मिलिता । मिलिता च मनोमात्रोद्बोधिका । तयोद्बोधिकया मनोमात्रस्यैव स्मरणं जन्यते । अयमेव मोषशब्दार्थः।।
तथा प्रकृतेऽपि प्रमेयत्वसामान्यलक्षणया प्रमेयमात्रस्य ज्ञानं वृत्तमिति । प्रामाण्यसामान्यस्यापि कालान्तरे प्रामाण्यातिरिक्तं विषयं विहायोक्तरीत्या तज्जन्यसंस्कारेण प्रामाण्यमात्रस्य स्मरणं जन्यत इति न साध्याप्रसिद्धिः । तथा च व्यतिरेक्यनुमानं "सम्भवत्येव । प्रयोगश्चेतीति । तथा च यदुक्तं विवादास्पदीभूतं जलज्ञानं प्रमाणमिति, तत्र दूषणं शङ्कते
नन्विति तथा चात्र विवादपदेन प्रामाण्याप्रामाण्यसन्देह विषय इदमप्रमाणरूपेऽपि सम्भवति। शुक्तौ यज्जातं रजतज्ञानं तत्रेदं प्रामाण्यं न वेति विवादास्पदीभूतं भवत्येव । तथा च विवादास्पदीभूतं जलज्ञानं भ्रमरूपमपि सम्भवत्येव । तथा च भ्रमरूपजलज्ञानपक्षे साध्याभावेन बाध इत्यर्थः । इति दोषं मूलकारो मनसि विचार्य विवक्षां करोति-अत्रेति तथा च 'भ्रमरूपे ज्ञाने' इति विवक्षितं पक्षत्वं नास्त्येव । तस्यैव भ्रमज्ञानस्य फलवत्प्रवृत्तिजनकत्वाभावादित्यर्थः ।
याथार्थ्यमिति मूलम् । अत्र प्रामाण्यपदेन प्रमाकरणत्वं नोच्यते, किन्तु यथार्थत्वमेव ।
स्मृत्येति मूलम् । स्मृतौ फलवत्प्रवृत्तिजनकत्वरूपो हेतुर्वतते, परं साध्यं प्रमाकरणत्वरूपं नास्तीति व्यभिचारो न स्यात् । प्रामाण्यपदस्य यथार्थत्वस्य विवक्षणात् । तथा च स्मृतौ यथा
१. B तत्र. २. B -पदशक्तिग्रहो काले. ३. B omits मिलिता च. ४. B न सम्भवत्येव ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org