________________
तर्कतरङ्गिणी
१६१ नैयायिको दूषयति-न चैवमिति । प्रतिबन्धिमुद्रया प्रामाण्यस्य स्वतस्त्वं दूषयति-अप्रमितेति । यदि च प्रमिततारूपधर्मेण ज्ञाततानिष्ठेन प्रामाण्यं तदनुमाने विषयीक्रियते तदा प्रमिततारूपधर्मेण यज्ज्ञाततायामप्रमारूपज्ञान जन्यत्वानुमानं तत्र प्रामाण्यमपि विषयो भविष्यति । तथा च प्रामाण्यमपि स्वतो ग्राह्यं स्यादिति भावः ।
स्वमतमिति । नैयायिको मीमांसकमतं दूषयित्वा न्यायमतं स्थापयतीत्यर्थः । तथा च भाट्टमते ज्ञानमतीन्द्रियं भवति । तज्ज्ञानं चानुमानेन भवति । अनुमानं तु तत्साधकम् । परिशेषानुमानं प्रागुक्तमेव । तेनानुमानेन ज्ञानसिद्धि विधाय पुनर्विषयनिष्ठज्ञाततायां ज्ञानजन्यत्वानुमानेन प्रामाण्यमपि विषयीभवति । इदं हि तदा सम्भवति यदा ज्ञानमतीन्द्रियं भवति । नैयायिकेन तु ज्ञानमतीन्द्रियमेव न स्वीक्रियते । ज्ञानस्य मानसप्रत्यक्षत्वात् । तथा च प्रामाण्यं न स्वतो गृह्यते । तथा च न्यायमते प्रामाण्यं परतो गृह्यते । तदनुमानेन सम्भवतीति शङ्कते । नन्विति प्राथमिमिति (त.भा.प्र. पृ.६.७) तथा च न्यायमते यस्य पुरुषस्य प्रथम त एवानुमानेन प्रामाण्यमनुमिति र्जाता, तन्मते प्रामाण्यं प्रत्यक्षेण न गृह्यत इति । तत्र साध्यप्रसिद्धि' रेव कुत्रचिन्नास्तीति साध्याप्रसिद्ध्या दृष्टान्ताभावात् तदनुमानमन्वयि न सम्भवतीत्याशङ्कार्थः ।
न च व्यतिरेकीति यथा-इदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात्, यत्समर्थप्रवृत्तिजनकं न भवति, तत्प्रमारूपमपि न भवति । यथा शुक्तौ रजतमिति व्यतिरेक्यनुमानमपि न सम्भवति ।
साध्याप्रसिद्ध्येति । तथा च येन पुरुषेण प्रामाण्यं प्रथमत: कुत्रापि गृहीतं नास्ति, तस्य प्रामाण्यमप्रसिद्धम् । कथम् ? सामान्येनाज्ञातस्यानुमानं न सम्भवति । विशिष्टज्ञानं प्रति विशेषणज्ञानस्य कारणत्त्वात् । विशिष्टज्ञानं चेदं ज्ञानं प्रमेत्यनुमितिज्ञानम् । तत्र ज्ञाने प्रामाण्यं विशेषणतया भासते । ज्ञानमुक्तरूपं च विशेष्यतया भासते इति विशेषणज्ञानाभावात् व्यतिरेकानुमानमपि न सम्भवतीत्यर्थः ।
समाधत्ते-जन्मान्तरीयेति । तथा चास्मिन्जन्मनि तेनाप्रामाण्यमनुभूतं नास्ति । तथापि जन्मान्तरे पूर्वजन्मनि यद्प्रामाण्यं ज्ञानं जातम्, तेन ज्ञानेन प्रामाण्यविषयकः संस्कारो जन्यते । तेन चैतस्मिन् जन्मनि उद्बोधकादृष्टादिसामग्रीसहकारेण तस्य स्मरणं भवति । तथा च प्रथमतः प्रामाण्यज्ञानं स्मरणरूपप्रसिद्धमेव।
न च प्राचीनजन्मनि प्रथमतः प्रामाण्यग्रहः कथं जात: तत्रापि साध्यप्रतीतेः सत्त्वादिति वाच्यम् । तज्जन्मन्यपि जन्मान्तरीयस्मरणमेव ग्राह्यम् । न चानवस्थेति वाच्यम् । बीजाङ्करन्यायेनेयमनव्यस्था दोषाधायिका न भवतीतिध्येयम् । अपि च यद्यपि विशेषतः तद्वतितत्प्रकारकत्वरूपं प्रामाण्यज्ञानं नास्ति, १. B जायते. २. B -प्रसिद्धरेव. ३. B न सम्भवति । ४. B omits अपि. तर्क.-२१
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org