________________
१६०
तर्कतरङ्गिणी ज्ञाततैव। येन ज्ञानेन यत्र पदार्थो ज्ञाततारूपो धर्मो जन्यते तद्विषयकमेव ज्ञानमिति नियामकम् ।
तत्र नैयायिको वदति-अर्थज्ञानयोरिति । अयं घट इति ज्ञाने घट एव ज्ञानविषयो भवति न पटादिः । अत्र स्वभाव एव 'नियामकः । यत्र यो भासते स एव तत्र विषयः नान्य इति स्वभावः ।
ननु विषयताऽपि स्वरूपसम्बन्धो यदि सोऽनेकः अतीतानागतस्थले यदि विषयस्वरूपमेव विषयता, सा च तत्र न सम्भवति । अतीतानागताभावादित्यर्थः । ज्ञानस्यैवेति । यद्यप्यतीतानागतस्थले वस्तु नास्ति तथा च मणिकारमते विषयता ज्ञाननिष्ठैव । लाघवात् । तथाहि घटपटस्तम्भा इति समूहालम्बनात्मकमेकं ज्ञानमनेकपदार्थविषयमुत्पद्यते । तत्रैकस्मिन्ज्ञाने विषयतास्वीकर्तव्याऽनेकेषु पदार्थेषु, लाघवात् ।-एकस्मिन्ज्ञाने विषयता स्वीकर्तव्येति मणिकृन्मतम्। तथाच यद्यप्यतीतानागतस्थले विषयनिष्ठा विषयता न सम्भवति तथा च ज्ञाननिष्ठैव साऽस्तीति भावः ।
सम्प्रतीति । यद्यपि कथंचित् ज्ञातताऽपि सिध्यतु तथापि तया प्रामाण्यं दुर्ग्रहं स्वत इत्याह ज्ञाततेति यया युक्त्या पूर्वं ज्ञाततालिङ्गकानुमितौ प्रामाण्यं विषयो भवतीत्युक्तं तदेव न सम्भवति । तथाहि यदि घटो 'घटत्ववति घटत्वप्रकारकज्ञानविषयो, घटत्ववति घटत्वप्रकारकज्ञाजन्यज्ञातताश्रयत्वादित्यनुमाने प्रामाण्यमनुमितौ विषयो भवति । एतद्स्वीकारेऽपि ज्ञाततायां ज्ञानजन्यत्वं प्रकारान्तरेणापि सम्भवतीत्याह-ज्ञाततेति ननु प्रमारूपज्ञानजन्येति । तथाहि-अस्या[म]नुमितौ प्रामाण्यं पूर्वदर्शितं न विषयः । यदि प्रोच्यते ज्ञातता "प्रमारूपज्ञानजन्या तदा व्यभिचारं दर्शयतिभ्रमेति । यदि ज्ञातता प्रमारूपज्ञानजन्या, ज्ञाततात्वादित्यनुमाने प्रामाण्यं विषयो भवति । न चैतत्कर्तुं शक्यते । अत्र यदि ज्ञातताप्रमारूपज्ञानजन्यत्वं साध्यते, तदा भ्रमजन्यज्ञाततायां व्यभिचारः । भ्रमजन्यज्ञाततायां ज्ञाततात्वरूपहेतुरस्ति । परं प्रमारूपज्ञानजन्यत्वं नास्तीति । यदि च ज्ञातताविशेषण प्रमारूपज्ञानजन्यत्वं साध्यते तदा नैयायिकेन सिद्धसाधनं विधेयमित्याह-इयं ज्ञाततेति ।
ज्ञातता प्रमारूपजन्या प्रमाहितज्ञातत्वादित्यनुमाने प्रामाण्यं विषयीभवति । सिद्धसाधनमिति तथा चानुमानेन प्रामाण्यं गृह्यते । तदा (द्) नैयायिकेनापि स्वीक्रियते । इति सिद्धसाधनमित्यर्थः । दूषयति मीमांसकः-ज्ञाततात्वादिति तथा च यथा ज्ञाततारूपो विषयनिष्ठो धर्मो वर्तते तथा विषयनिष्ठः एकः प्रमितोऽप्यखण्ड: एकपदार्थघटितः स्वीक्रियते। तेन “प्रमितताधर्मेणानुमानं कर्तव्यम् । यथा-ज्ञातता प्रमारूपज्ञानजन्या, प्रमिततात्वादित्यत्रानेनाखण्डधर्मे प्रमारूपज्ञानजन्यत्वं सेत्स्यति ।
तथा च न सिद्धसाधनम् । नैयायिकानां मते प्रवृत्तेः पूर्वं हेतुज्ञानाभावेन तादृशानुमानं न सम्भवतीति न सिद्धसाधनम् । तथा चैतदनुमितौ प्रामाण्यमपि विषयो भवतीति स्वतस्त्वमित्युक्ते
१. B नियामकम्. २. B घटाः पटाः स्तम्भा इति. ३. B omits अपि. ४. B omits घटत्ववति. ५. B ज्ञाततारूपज्ञान.. ६. B omits 'प्रमाहित'. ७. It is ज्ञाततावद् in त.भा.प्र. ८. B प्रमितकता. ९. B प्रमितत्वादि..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org