________________
तर्कतरङ्गिणी
१५९ ननु सा धर्माधर्मजन्यैव भविष्यतीत्यत आह-धर्माधर्माति उपेक्षणीया या 'ज्ञातता, तस्या अनुपपत्तिरेव स्यात् । तथाहि प्रवृत्तिनिवृत्त्यजनकीभूतं यज्ज्ञानं तदुपेक्षात्मकम् । तज्जन्या' तद्विषये ज्ञाततोत्पद्यते । तस्य धर्माधर्मजन्यत्वे तूत्पत्तिरेव न स्यात् । तथाहि प्रवृत्तिप्रसङ्गः धर्माधर्मयोः भोगः, तज्जनकान्यतरं प्रतिकारणत्वात् । ज्ञातता तु न वा भोगो न वा भोगजनक(निका) इति ।।
ज्ञातता इच्छाजन्याऽपि न भवति । तद्विषये विषयादावपि इच्छाव्यतिरेकेणापि ज्ञाततायाः ज्ञायमानत्वात् । एवं द्वेषप्रयत्नाविषयेऽपि चन्द्रादौ ज्ञाततायाः उत्पत्तेः । तदनुत्पादेऽपीति यदा सुखदुःखयोनिरुत्पत्तिर्नजाता तदपि यस्य ज्ञानमात्रं जायते तत्रापि ज्ञाततोत्पत्तेः ।
ननु तर्हि आत्मधर्मजन्यैव ज्ञातता भविष्यतीत्यत आह-प्रत्यात्मनीति । आत्मनि प्रतिनियतो यो धर्मः ज्ञानरूपस्तज्जन्यत्वात् तस्य जन्यत्वात्, तस्याः ननु ज्ञानमात्रेण ज्ञाततायाः जन्यत्वे शाब्दानुमितिर्जन्यत्वमप्यायास्यतीत्यत आह शाब्दानुमित्योरिति । तयोः ज्ञाततां प्रत्यजनकत्वादित्यर्थः । ज्ञाततायाः प्रत्यक्षज्ञानजन्यत्वादनुमित्यादिस्थले वह्निरनुमित इत्येव न तु ज्ञात इति प्रामाण्यम् । अनुमानेनेति उक्तपरिशेषानुमानेनात्मनि ज्ञानसिद्धिर्जाता । न्यायमते स्वमते ।
___ भाट्टमतेऽर्थापत्याऽपि ज्ञानसिद्धिमाह-"एवं चेति तन्मतेऽर्थापत्तिः पृथक् प्रमाणं भवति । तेनैव प्रमाणेन भाट्टमतेऽऽत्मनि ज्ञानसिद्धिः । अथ न्यायमतेन ज्ञाततां दूषयति-ज्ञातोऽयमिति । तथा च न्यायमते ज्ञानविषयत्वमेव ज्ञातता पदार्थस्वरूपमेव । अतिरिक्तो वा पदार्थ- नवीनमते । यथाऽयं घट इत्यत्र ज्ञानविषयो घटो भवति । तत्र च विषयता वर्तते । विषयतायाः विषयधर्मत्वात् प्राचीनमते विषयता विषयस्वरूपमेवेति।
अस्मिन्नपीति । यस्मिन्पक्षे नैयायिकेन विषयतैव ज्ञातता स्थापिता तस्मिन्नपि पक्षे ज्ञातोऽयं घट इति प्रतीत्या ज्ञाततासिद्धिर्भवत्येव । तत्रेति तथा च ज्ञातताधारत्वमेव नैयायिकाभिमता विषयता। यदि न्यायमते ज्ञाततातिरिक्तपदार्थो न भवति किन्तु विषयतैव तदा न्यायमते विषयतास्वरूपसम्बन्धविशेष एव । स तु ज्ञानस्वरूपं विषयस्वरूपं वा । तथा च विषयनिष्ठो धर्मो नागत एव । यतो विषये घटदौ विषयो नास्ति । ज्ञाने च ज्ञानं नास्ति-इति ज्ञातताऽतिरिक्तैव स्वीकार्या। यदि नैयायिकेन ज्ञानजनकत्वमेव ज्ञातता वाच्या, तदा चक्षुरादावपि तद्वृत्तिः स्यात् । अतो न ज्ञातताऽतिरिक्ता ।
दूषयति शक्येत्याह-ज्ञानभिन्नत्वमिति । नैयायिकः स्वमतेन ज्ञाततातिरिक्तं दूषयित्वा स्वमते विषयतां स्थापयति । स्वरूप सम्बन्धविशेष एवेति तथा च मीमांसकेन यदुक्तं-अयं घट इति ज्ञाने घट एव विषयो भवति न पटदिरित्यत्र किं नियामकम् ? मन्मते [मीमांसकमते ]तु १. B यज्ज्ञातता. २. B तज्जन्यतद्विषये. ३. It is प्रत्यात्मेति in त. भा. प्र. ४. This प्रतीक is not found in त. भा. प्र. ५. It is एवमिति in त. भा. प्र. ६. B अत्र. ७. B नैयायिके तु ज्ञान..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org