________________
१५८
तर्कतरङ्गिणी अप्रामाण्यशङ्काविरहेति यदा धर्मिज्ञानं नास्ति तदा तच्छङ्काऽपि न भवति । सन्देहं प्रति धमिज्ञानस्यापि कारणत्वात् । यथाऽयं स्थाणु ने वेति सन्देहः तदैव भवति यदा धर्मिज्ञानं च पुरोवर्तिसन्निकृष्टोच्चैस्त्वविशिष्टधर्मिज्ञानम् । तदवत् प्रकृतेऽपि प्रामाण्यरूपधर्मिज्ञानेऽप्रामाण्यशङ्का न भवतीति । .
___ अयमर्थः-अप्रामाण्यशङ्कात्वप्रामाण्यविषयः सन्देहः । सन्देहे तु कोटिद्वयं विषयो भवति । अत्र त्वप्रामाण्यरूपा एका कोटिः, अपरा च प्रामाण्यरूपेति कोटिद्धयमस्ति । तथा चाप्रामाण्यशङ्का प्रामाण्यरूपकोटिज्ञानव्यतिरेकेण न सम्भवति । ततोऽप्रामाण्यशड्काविरहस्य प्रामाण्यज्ञानविलम्बेनेति । तथा च यदा दैववशात् प्रामाण्यरूपा या कोटिः सा नोपस्थिता, तदा त्वप्रामाण्यसन्देहो न भवति । अप्रामाण्यसन्देहो प्रामाण्यरूपकोटेरपि विषयत्वात् । शङ्का तदैव स्यात् यदोभयकोट्युपस्थितेः सन्देहं प्रति कारणत्वात् । तथा 'चाप्रामाण्यशङ्काशून्यार्थज्ञानादेव निष्कम्पा प्रवृत्तिः प्रामाण्यग्रहव्यतिरेकेणापि सम्भवतीति न प्रवृत्त्यन्यथानुपपत्तया प्रामाण्यस्य स्वतस्त्वमिति न्यायमार्गेण दूषणं ज्ञेयम् । एतदेवाहइत्याशयेनाहेति ।
भाट्टमतं दूषयति-ज्ञाततात्वेनेति अथ ज्ञाततां दूषयति-नन्विति तस्य ज्ञाततारूपधर्मस्य ज्ञानजन्यत्वं कुत्रापि गृहीतं नास्ति । परमनुमीयते । तेनाज्ञातधर्मस्यानुमानं न सम्भवतीत्याशङ्कार्थः ।
ननु ज्ञाततायाः ज्ञानजन्यत्वग्रहो न सम्भवति, ज्ञानस्यातीन्द्रियत्वात् । ततो ज्ञानत्वेन कारणता ज्ञातत्वेन कार्यतेति कार्यकारणभावः प्रत्यक्षेण ग्रहीतुमशक्यः । तस्येति तत्र-कार्यकारणभावग्रहे स्यात्। तस्यातीन्द्रियरूपज्ञानस्य प्रत्यक्षं न सम्भवतीत्यसामर्थ्यम् ।
अत्र बूम इति यद्यपि न्यायमते ज्ञातता नास्ति तथापि भाट्टमताभिप्रायं प्रकटयति । यदुक्तं ज्ञानस्यातीन्द्रियत्वात् ज्ञानत्वेन ज्ञाततात्वेन कार्यकारणभावोऽन्वययव्यतिरेकाभ्यां न सम्भवतीति । अथ च ज्ञानजन्यत्वाप्रसिध्ध्या ज्ञाततायां ज्ञानजन्यत्वानुमानं न सम्भवतीति । तत्र समाधीयते ज्ञाततामिति। यदि ज्ञाततया कदाचित्प्रत्यक्षं भवति, तदनन्तरं तत्र "कादाचित्कत्वमवधारितम् । तत्र ज्ञानजन्यत्वमनुमीयते । यथा-इयं ज्ञातता कारणजन्या, भाववत्त्वे सति कादाचित्कत्वात् । तथा च कादाचित्कत्वेन हेतुना ज्ञाततायां कारणजन्यत्वानुमानम् । तस्मिन्ननुमिते परिशेषानुमानं कर्तव्यम् । तथाहि, ज्ञातता ज्ञानजन्या, ज्ञानेतराजन्यत्वे सति जन्यत्वात्, यथा ज्ञानध्वंसः ।
परिशेषमाह न तावदेषेति ननु ज्ञातता ज्ञानजन्या किमर्थं वाच्या । संस्कारधर्मा धर्मान्यतरजन्या भविष्यतीति । तत्राह प्रथमतः संस्कारजन्यत्वं दूषयति-संस्काराविषयेति संस्काराविषयो यो पदार्थः, यस्य पदार्थस्य प्रथमत एव ज्ञानं जातं संस्कारस्त्वग्रे भविष्यति । ज्ञानकाले तस्याभावात् । तदानीं संस्कारासत्त्वेन ज्ञाततायारुत्पत्तिरेव न स्यात् । १. B न सम्भवति । २. B च प्रामाण्यशङ्का. ३. B omits इति. ४. B -कत्वमेव धारितम् ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org