________________
तर्कतरङ्गिणी
ज्ञातता ज्ञानमिव प्रामाण्यमपि ग्राह्यति ।
अयमर्थः: - यथा प्रथमतो ज्ञाततया कृत्वा परिशेषेण ज्ञानसिद्धिः । यथा ज्ञातता केनचिज्जन्या, उत्पत्तिमत्वादित्यनुमानेन ज्ञाततायाः किञ्चित्कारणं सिद्धम् । तच्च परिशेषानुमानेनात्मनो गुणविशेषो ज्ञानरूपः सिध्यति । परिशेषस्तु ग्रन्थकृता स्वयं दर्शयिष्यते । स तु इति ज्ञातता नामको धर्मः प्रत्यक्षज्ञातोऽयं घट इति व्यावहारादित्यर्थः ।
ननु तर्हि ज्ञाततायाः प्रामाण्यं क्थं ग्राह्यमित्यत आह- तदन्यथानुपपत्तिरिति यथा ज्ञाततान्यथानुपपत्ति र्ज्ञानं ग्राह्यति तथा प्रामाण्यमपि ग्राह्यति । भाट्टमते ज्ञानमतीन्द्रियं भवति । तत्र प्रामाण्यं ज्ञाततैव । घटाद ज्ञाततारूपो धर्मो यः प्रत्यक्षतया दृश्यते सोऽकिञ्चित्कारणको भवति । तथा चान्याकारणकत्वेन ज्ञानमेव तत्कारणं सिध्यतीति ज्ञाततालिङ्गका याऽनुमितिः तत्र प्रामाण्यमपि विषयो भवति ।
१५७
तथा चानुमानं घटो घटत्ववति घटत्वप्रकारकज्ञानविषयः, घटत्ववति घटत्वप्रकारकज्ञानजन्यज्ञातताश्रयत्वात्, यन्नैवं तन्नैवं यथा पटः । सामान्यव्याप्तिरप्यस्ति । यः पदार्थो यद्धर्मवति, यद्धर्मप्रकारकज्ञानजन्यज्ञातताश्रय भवति सः तद्धर्मवति तद्धर्मप्रकारकज्ञानविषयो भवतीति । घटस्तु घटत्ववति घटत्वप्रकारकज्ञानजन्यताश्रयो भवति । स घटत्ववति घटत्वप्रकारज्ञानविषयो भवतिइत्यनुमितिश्च । अस्यां चानुमितौ प्रामाण्यमपि भातमेव विषयत्वेन रूपेणेति ज्ञाततालिङ्गकानुमित्या प्रामाण्यमपि विषयीक्रियते इति भाट्टमताभिप्रायः ।
इदं नैयायिको दूषयति प्रामाण्यज्ञानस्येति । मीमांसकेन प्रामाण्यस्य स्वतस्त्वे प्रवर्तकत्वान्यथानुपपत्तिरेव "मानं युक्तम् । तथा हि यदि यावत्पर्यन्तं ज्ञानस्य प्रामाण्यं न गृह्यते तावत्पर्यन्तं प्रवृत्तिर्न भवति । तस्योक्तरीत्या प्रवर्तकत्वात् । तथा च प्रवृत्तेः पूर्वं प्रामाण्यज्ञानमावश्यकमिति दूषयति न चेति । नैयायिकेन प्रामाण्यं ज्ञानस्य प्रवृत्तिजनकत्वमेव न स्वीक्रियते । तदनुरोधेन त्वया प्रामाण्यस्य स्वतस्त्वं वाच्यम् । मम मते तु प्रवृत्तिरर्थज्ञानादेव भवति । यथेदं जलं मदिष्टसाधनमिति ज्ञानादेवप्रवृत्तेः सम्भवात् ।
नन्वर्थमात्रादेव निष्कपा- नि: शङ्काप्रवृत्तिः कुतो भविष्यति ? ततस्तदर्थमवश्यं प्रामाण्यग्रहो निष्कम्पप्रवृत्तेः पूर्वं वाच्यं एवेत्याह-प्रवृत्तिमात्रस्येति । प्रवृत्तिमात्रे त्वर्थज्ञानं कारणम् । निष्कम्पप्रवृत्त्या` त्वप्रामाण्यशङ्काशून्यो योऽर्थनिश्चयस्तस्मादेव निष्कम्पप्रवृत्ति भविष्यति ।
नन्वप्रामाण्यशङ्काविरहः प्रामाण्यग्र हव्यतिरेकेण कथं भविष्यतीत्यत आह
१. B परिज्ञाततालि. २. A omits इति. ३. B Repeats the reading between घटत्ववति...... .. ज्ञानविषयो. ४. B adds स्वतस्त्वे here. ५ B - प्रसृत्तौ .
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org