________________
१५६
तर्कतरङ्गिणी समर्थप्रवृत्तिजनकत्वरूपो यो हेतुः स तु प्रवृत्त्यनन्तरमेव जा(ज्ञा)यते ।
मीमांसकमतमुपसंहरति न्यायमतं दूषयित्वा । तस्मादिति । यत इति प्रवृत्ति 'प्रामाण्यग्रहाधीना । प्रामाण्यावधारणानन्तरमेव पुरुषः प्रवर्तत इत्यर्थः । अत्र प्रामाण्यावधारणं निश्चयसन्देहसाधारणप्रवर्तकम् । भवदिति मीमांसको नैयायिकं प्रति स्वसामग्री दृढयति भवदिति । भवता योक्ताऽनुमितिस्तां प्रति पक्षज्ञानं भवति कारणम् । तदनुरोधेन च पुनः संशयं प्रत्यपि धर्मिज्ञानं भवति कारणं । ज्ञानं धर्मि भवति तस्य ज्ञानं धर्मिज्ञानम् । तदपि संशयानुरोधेनाप्यपेक्ष्यते भवन्मतेऽपि। तदेव ज्ञानं मन्मते प्रामाण्यविषयकम् । तथा चोभयवादिसिद्धं यज्ज्ञानं तेनैव प्रामाण्यं विषयीक्रियते। भवन्मते च गौरवमपि । यथा भवतां पूर्व पक्षज्ञानम् तदनन्तरं हेतुज्ञानम्, तदनन्तरं व्याप्तिस्मरणम्, तदनन्तरं व्याप्तिविशिष्टपक्षधर्मताज्ञानरूपरामर्शः, तदनन्तरं प्रामाण्यविषयिण्यनुमितिर्यथा 'इदं जलज्ञानं प्रमा'-इति । ततो भवन्मते गौरवम् । मम मते च पक्षज्ञानेनैव भवदभिमतेन प्रथमत एव प्रामाण्यं विषयीक्रियते इति लाघवमेव ।
प्रकारद्धयेति यथा पक्षज्ञानानुरोधेन ज्ञानस्य ज्ञानमनुव्यवसायरूपं भवताऽपि स्वीकार्यम्, इदमनुमानस्थलेऽयमेकप्रकार: । द्वितीयस्तु सन्देहस्थले धर्मिज्ञानानुरोधेन ज्ञानस्य ज्ञानमपेक्ष्यते । तथा च पक्षज्ञानधर्मिज्ञानं चोभयवादिसद्धमित्यत्र विवादो नास्ति ।-इत्येवंरूपा मीमांस का भिमता भवता स्वीक्रियते एव । अन्यथाऽनुमितिरेव न स्यात् । अस्माभिस्तु नैयायिकाभिमता सामग्री अनुमानरूपा प्रामाण्यग्राहकत्वेनाङ्गीक्रियते । पक्षज्ञानादिधर्ममनुमानादिसामग्रीनाऽपेक्ष्यत एव । तथा च पक्षज्ञानधर्मिज्ञानरूपायां सामग्र्यां भवता सह विवादो नास्ति । परं प्रामाण्यग्रहस्तयेत्यत्र विवाद इत्यवशिष्यते ।
स: विशेष्यग्रहोऽपि यथा बाधितस्तथा दर्शयति-स तु इति तथा प्रवृत्त्यन्यथाऽनुपपत्तया प्रामाण्यस्यान्वयव्यतिरेकाभ्यां ज्ञानग्राहकसामग्र्यैव ग्राह्यत्वमिति प्रामाण्यमपि प्रथमत एव गृहीतम् । अन्यथा प्रवृत्तिरेव न स्यात् । तथा च धर्मिज्ञानं पक्षज्ञानं च यदि वृत्तं तदा प्रवृत्त्यनुरोधेन प्रामाण्यमपि पक्षज्ञानधर्मिज्ञानाभ्यां विषयीक्रियते एवेति भावः । इति मुरारिमिश्रगुस्मते स्वतस्त्वं संपादितम् ।
इदानीं भाट्टमते स्वतस्त्वं व्युत्पादयति भाट्टानां मते इति तन्मते ज्ञानं प्रत्यक्षं न भवति । ज्ञानस्यातीन्द्रियत्वात् । तथा तन्मतेऽनुव्यवसायरूपमानसज्ञानाभावादनुमानमेव तत्र प्रमाणम् । तदेव संपादयति-ज्ञाततानामक इति तथा च विषयनिष्ठो ज्ञानेनैको ज्ञाततारूपो धर्मो जायते । स तु प्रत्यक्षो भवति । तत्र ज्ञातोऽयं घट इति ज्ञाततायां प्रत्यक्षमेव प्रमाणम् । तदन्यथाऽनुपपत्त्या ज्ञाततान्यथानुपपत्त्या
१. B प्रामाण्यप्रामाण्यग्रहा.. २. B उत्ताऽनु. ३. B मीमांसकमता. ४. B -माण्याग्रहस्त. ५. B omits अपि. ६. B तथा चेन्द्रियं (?) यदि धर्मिज्ञानं.
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org