Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 253
________________ २१२ तर्कतरङ्गिणी इयं प्रक्रिया प्रथमशब्दोत्पत्तौ । द्वितीयादिशब्दोत्पत्तौ तु प्रथमशब्दो द्वितीयशब्दे निमित्तकारणम्, वाय्वाकाशसंयोगस्त्वसमवायिकारणम्, आकाशं समवायिकारणम् । एवं द्वितीयेन तृतीयो जन्यते । एवं वायुनाऽऽकाशेन सह शब्दोत्पादे' कर्णदेशे यो शब्दः उत्पन्नः स एव श्रूयते । __ अन्त्य इति प्रथमशब्दस्यातीन्द्रियत्वात् न श्रोत्रग्राह्यत्वम् । अन्त्यः श्रोत्रप्राप्तः शब्दः श्रूयते, न तु मध्यमाः न च (नु) यदि भेरी शब्दः प्रथमोत्पन्नो यो न श्रूयते तदा भेाँ शब्द इति प्रतीति र्न स्यादिति चेत्, न । तस्य भ्रान्त्वत्वात् ।। ननु शब्दस्य समवायिकारणं भेर्येव कुतो न भवति, किमर्थमतीन्द्रियपदार्थान्तरकल्पना, तथाहि येनाकाशस्य शब्दं प्रति समवायिकारणत्वं स्वीक्रियते तेनापि भेर्यादीनां निमित्तकारणत्वं स्वीक्रियते एव। तथा च भेर्यादीनां शब्दकारणत्वमुभयसिद्धम् समवायित्वमात्रं परमधिकं कल्प्यते । भवता च एको धर्मी आकाशलक्षणः कल्पनीयः पुनस्तस्य कारणत्वं कल्पनीयम् तत्रापि पुनः शब्दसमवायित्वं कल्पनीयम्, तथा चैतत्त्रयकल्पनापेक्षयाऽस्मन्मते समवायिमात्रकल्पना भेर्यादीनां लघीयसी' ति भेर्यादीनामेव शब्दो गुण इति चेत्, न । यदि भेर्यादीनामेव शब्दो गुणस्तदा शब्दप्रत्यक्षमवेन न स्यात् । श्रोत्रेन्द्रियस्य भेरीशब्देन समसम्बन्धात् । इन्द्रियाणां च वस्तुप्राप्यकारित्वनियमात् । असम्बद्धभेरीशब्दविषयकं प्रत्यक्षं कथं जन्येत ? यधुच्यते प्रथमतो भेयां शब्द उत्पन्नः, तेन च पूर्वरीत्या शब्दान्तरमुत्पाद्यते तेनापि शब्दान्तरम्, एवं क्रमेण श्रोत्रेन्द्रियशब्दे य उत्पन्नः शब्दः स एव श्रूयते तदा भेर्यतिरिक्तस्थले समवायिकारणत्वाभावात् शब्दोत्पत्त्यसम्भव एव बाधकः । तस्मात् भेर्याद्यतिरिक्तः शब्दप्रत्यक्षान्यथानुपपत्त्या व्यापको द्रव्यान्तरशब्दसमवायिकारणत्वेन स्वीकर्तव्यः । इति शब्दसमवायिकारणामाकाशमेव न मृदंगभेर्यादीति। विभागजेति यथा संयोगेनाभिघाताख्यसंयोगेन शब्द उत्पाद्यते तथा विभागेनापि वं[श]दलद्वयादिविभागेनापि शब्द: जन्यते । वंशदलद्वयविभागस्तु शब्दं प्रति निमित्तकारणं, वंशदलद्वयाकाशविभागस्तु असमवायिकारणं, आकाशं तु समवायिकारणम् । वंशदलद्वयविभागेन यः प्रथमं चटचटेति शब्दः उत्पादितः स चातीन्द्रियः । तेन 'चानुकूलवातादिसंयोगेन चटचटेति शब्दान्तरमुत्पादितम् । तं प्रति वाय्वाकाशसंयोगोऽसमवायिकारणम्, शब्दो निमित्तकारणम् आकाशः समवायिकारणम् । शेषं पूर्ववत् । बुद्धिवदिति यथा बुद्धे विक्षणावस्थायित्वम् । ननु बुद्धः द्विक्षणावस्थायित्वे किं १. B adds द्वितीयशब्देन निमित्तकारणम् after शब्दोत्पादे. २. B omits च. ३. B omits तं. ४. B बुद्धेक्षणा. ५. B omits the reading between ननु....पदार्थत्वेन. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306