Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 252
________________ तर्कतरङ्गिणी २११ (१०-११) परत्वापरत्वे दिक्कृतपरत्वमिति - यत्र पिण्डेऽयमस्मात्पर इति परत्वविषयिणी प्रतीतिर्जायते तस्य परत्वस्यापि पिण्ड: समवायिकारणम् । दिपिण्डसंयोगः परत्वं प्रत्यसमवायिकारणम् । अयमिति यदपेक्षया पिण्डे परत्वं प्रतीयते तत्संयुक्तभूतलादिसंयुक्तवानयम् यथा-एतत्पुरुषसंयुक्तोऽयं देशः तत्संयुक्तोऽग्रिमदेशः, 'तत्संयुक्तोऽप्यग्रिमदेशः इति परंपरया संयुक्तं यद्भूतलादि, तत्संयोगो यो वर्तते पिण्डे, तद्वानयमिति बुद्धिनिमित्तकारणम् । अपरत्वप्रतीतिः-अयमस्मादपरो निकट इति । 'परत्वधीरिति निमित्तमिति शेषः । शेषः । शेषः (पं) सुगमम् । (१२) गुरुत्वम् । द्वितीयपतनेति (त.भा.प्र. पृ. ८२) तथा च द्वितीयादिपतनासमवायिकारणं वेगोऽपि भवति । वेगादपि पतनसम्भवात् । अत आद्येति गुरुत्वस्यातीन्द्रियत्वात्पतनलक्षणकार्येण तदनुमानम् । (१३) स्नेहः । पर्यायेति चिक्कणताशब्दः स्नेहस्य पर्याय एव । तेन स्नेहत्वसामान्यवान् स्नेह इत्यर्थः । (१४) शब्दः । श्रोत्रेति - यदि गुणपदं न दीयते तदा शब्दत्वेऽति व्याप्तिः । अतः गुणपदम् । सन्निकर्ष विनेति । तथा च भेरीदेशो शब्दो भेरीदण्डसंयोगेनोत्पद्यते । श्रोत्रेन्द्रियं तु कर्णशष्कुल्यवच्छिन्नं नभत्यं वर्तते पुरुषदेशे । तथा च शब्दश्रोत्रेन्द्रिययोः परस्परपरमसम्बन्धेन श्रोत्रेन्द्रियेण शब्दज्ञानं न जननीयमित्याशङ्कार्थः । सिद्धान्तमाह-अत्रेति शब्दोत्पत्तिद्विधा भवति । एका वीचितरङ्गन्यायरूपा। - प्रथमतो जले यदा द्रव्यान्तर किञ्चित्प्रतिक्षिप्यते [तदा] तरङ्गोत्पत्तिर्जायते । तेन तरङ्गेण तरङ्गान्तरमुत्पाद्यते, तेन च तरङ्गान्तरमिति । एवं कृत्वा तीरपर्यन्तं क्रमेणैव तरङ्गोत्पत्तिर्जायते । तदा शब्दस्थलेऽपि यदा दिक्षु एक एव वायुर्वाति, तदा वीचितरङ्गन्याय एव ग्राह्यः । यदा च 'वाच्यन्तरमपि चलति, तदा कदम्बगोलकन्यायः । कुण्डलकारेण शब्दोत्पत्तिर्जायते । यथा कदम्बमुकुलस्य पत्राणि-चतुर्दिक्षु पत्राण्युत्पद्यन्ते तथा शब्दोत्पत्तिर्जायते । तथा च भेाँ शब्द उत्पद्यते । तदा भेरी भवति निमित्तकारणम्, भेरीदण्डसंयोगश्च निमित्तकारणम्, भेर्याकाशसंयोगश्चासमवायिकारणम् । दण्डोऽपि निमित्तकारणम् आकाशं तु समवा[यि]कारणम् । १. B omits the reading between तत्संपु.....देशः. २. This प्रतीक is not found in त. भा. प्र. ३. Following गोवर्धन, गुण. does not discuss the quality द्रव्यत्व. ४. A वाद्यान्तरमपि. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306