Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 250
________________ तर्कतरङ्गिणी २०९ आश्रयो भवति घटः । तद्वृत्तिर्यः घटकाशसंयोगः तदधिकरणत्वं घटेऽऽकाशे च तिष्ठतीति । तथा चानेन सम्बन्धेन क्रियाया उभयत्र सत्त्वे न व्यभिचार इति दिक् । ननु संयोगस्याव्याप्यवृत्तित्वे द्वयणुकस्थले परमाणुद्वयसंयोगोऽव्याप्यवृत्ति न स्यात्, त(य)स्यावयवान्तरं भवति, तत्रैवाव्याप्यवृत्तित्वं संयोगस्य वक्तुं शक्यते इति चेत्, न । तत्र दिश एवावच्छेदकत्वात् । यद् दिगवच्छेदेन परमाणुद्वयसंयोगो वृत्तस्तदपेक्षयाऽन्यदिगवच्छेदेन तत्संयोगात्यन्ताभावस्य सत्त्वात् दिशामतीवसूक्ष्मत्वात् । संयोगस्याव्याप्यवृत्तित्वे किं प्रमाणमिति चेत्, प्रत्यक्षमेव । यथा मूलावच्छेदेन वृक्षे संयोगः, न शाखावच्छेदेनेति । नन्वनया प्रतीत्या सत्या संयोगस्याव्याप्यवृत्तित्वं नैयायिकैर्यदि साध्यते तदा नितम्बे हुताशनो न शिखरे', इत्यनया प्रतीत्या संयोगसम्बन्धेन द्रव्यस्याव्याप्यवृत्तित्वमायातु न च समवायसम्बन्धेनैव द्रव्यस्य साध्यव्याप्यवृत्तित्वं नैयायिकैः स्वीक्रियते इति वाच्यम्, समवायसम्बन्धेनापि तन्तुषु पटो न तदाशाष(तदंशुषु ?) इति प्रतीत्या तन्तुलक्षणस्वावयवेषु पटाभावप्रतीतेरुदयात्; समवायिसम्बन्धेनापि "द्रव्यस्याव्याप्यवृत्तित्वमायाति; यद्युच्यते "नितम्बे हुताशनो न शिखरे" इत्यनया प्रतीत्या हुताशनसंयोगाभाव एवं विषयीक्रियते, शिखरावच्छेदेनापि "वह्नः सत्त्वात्, यतः पर्वते वह्निरित्यनया प्रतीत्या शिखरावच्छेदेन वह्निः सिद्धः परं वह्निसंयोगस्तत्र नास्तीति द्रव्यस्याव्याप्यवृत्तित्वमिति चेत्, न । यद्यनयायुक्त्या द्रव्यस्य व्याप्यवृत्तित्वं साध्यते तदा वृक्षे कपिसंयोगो, न शाखायामित्यनया प्रतीत्या शाखावच्छेदेन संयोगस्य समवायिभावः प्रतीयते, परं संयोगस्तत्र तिष्ठत्येव । “अन्यथा वृक्षः कपिसंयोगी, इति प्रतीतिरेव न स्यात् । जायते च तथा प्रतीतिरिति संयोगस्यापि व्याप्यवृत्तित्वम् । न च शाखावच्छेदेन कपिसंयोगस्य समवायाभावेन संयोगवृत्तिरापादयितुं न शक्यते सम्बन्धव्यतिरेकेणासम्बन्धिना स्थातुं न शक्यते इति वाच्यम् । यथाऽऽकाशस्य भूतलादौ संयोगसत्त्वेन सम्बन्धी आकाशे नास्ति, तथा प्रकृते सम्बन्धव्यतिरेकेणापि सम्बन्धी कुत्रचित्स्थास्यति । तथा च यत्र सम्बन्धस्तिष्ठति तत्राकाशसम्बन्ध्यपि तिष्ठति । यत्र च सम्बन्धो नास्ति तत्र सम्बन्ध्यपि नास्तीति न नियमः । पूर्वोक्तव्यभिचारात् । ननु यद्युच्यते "यत्र सम्बन्धस्तत्र सम्बन्धी" इत्यत्र यद्यपि नियमो नास्ति तथापि यत्र सम्बन्धाभावस्तत्र सम्बन्ध्यभाव इति नियम एवेति चेत्, न । विपरीतमेव किं न स्यात् ? 'यत्र सम्बन्धस्तत्रैव सम्बन्धी' इति । तथा चाकाशस्यापि वृत्तिमत्त्वमायातीति । ततः इयं व्याप्तिरप्रयोजिका । तथा च शाखायां न संयोगः इत्यनया प्रतीत्या कपिसंयोगसमवायाभाव एव १. A omits नैयायिकैः. २. B om its यदि. ३. A दशाषु. ४. A -स्याव्याप्य.. ५. A omits एव. ६. B omits अपि. ७. A omits the reading between वढे:..........च्छेदेन. ८. B न वृक्षः. ९. B जायते तथा च. १०. B -जका. तर्क.-२७ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306