Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 248
________________ तर्कतरङ्गिणी २०७ तथाप्यनेकवृत्तिवृत्तित्वं नास्तीति नातिव्याप्तिः । गुणत्वमादाय गुणमात्रेऽतिव्याप्तिवारणार्थं व्याप्यपदम् । यद्यप्यनेन गुणत्वमपि गुणत्वव्याप्यं भवत्येव तथापि भेदेनात्रव्याप्यव्यापकभावो विवक्षितः । जातिपदं समवायसम्बन्धेन तद्वत्त्वबाधार्थम् । प्रमाणं चात्रेदमस्मादित्यबाधितं प्रत्यक्षमेव गुणत्वसाधकम् । कथम् ? यथा सङ्ख्यात्वं पक्ष: । एकानेकवृत्तिवृत्तिगुणत्वसाक्षाद्व्याप्यजातिसमानाधिकरणात्यन्ताभावप्रतियोगिगुणत्वव्याप्यजातित्वात्, रूपत्ववत् । साध्यार्थो यथा एकस्मिन्नेकस्मिन् च वर्तते यो पदार्थ स्तवृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिः, तत्समानाधिकरणो योऽत्यन्ताभावः तत्प्रतियोगित्वं रूपत्वस्यास्ति । यथा रूपत्वं साध्यं तिष्ठति । तथा हि यथा घटात्पट: पृथगित्यत्र- अथ च 'घटत्पटस्तन्तौ पृथगित्यत्रैकानेकवृत्तिर्गुणः पृथकत्वरूपो जातः । तत्र वर्तते या गुणत्वसाक्षाद्व्याप्या जाति: पृथक्त्वम् । अर्थात् तत्समानाधिकरणो योऽत्यन्ताभावो रूपत्वादीनाम्, तत्प्रतियोगित्वं रूपे तिष्ठतीति-तथा पक्षरूपसङ्ख्यात्वेऽपि तिष्ठति । एकानेकवृत्तिवृत्तिगुणत्वसाक्षाद्व्याप्या जातिर्भवति पृथक्त्वम् । तत्समानाधिकरणोऽत्यन्ता-भावसङ्ख्यात्वस्य । तत्प्रतियोगित्वं सङ्ख्यात्वेऽस्ति । तथा चानेनानुमानेन पक्षधर्मताबलात् पृथक्त्वनिष्ठा पृथक्त्वरूपा जातिस्तिष्ठति । द्वितीयवृत्तिवृत्त्यन्तं पदानुपादाने बाधः । यथा गुणत्वसाक्षाद्व्याप्या जातिर्भवति सङ्ख्यात्वम् । तत्समानाधिकरणात्यन्ताभावप्रतियोगित्वं सङ्ख्यात्वस्य सङ्ख्यात्वे नास्तीति बाधः स्यादिति । अनेकवृत्तिपदानुपादाने बाध एव । यथैकवृत्तिर्यो गुण एकत्वम् । तत्र वर्तते वा गुणत्वसाक्षाद्व्याप्या जातिः सङ्ख्यात्वरूपा, तत्समानाधिकरणो योऽत्यन्ताभावो रूपत्वादीनाम्, तत्प्रतियोगित्वं च सङ्ख्यात्वस्य नास्तीति । ननु पृथक्त्वे बुद्धेरन्योन्याभावेनैवान्यथासिद्धः न तद्गुणान्तरमिति चेत् न । पृथक्त्वस्यावधिनिरूप्यत्वात् । अन्योन्याभावस्य प्रतियोगिनिरूप्यत्वात्-इदमस्माद् पृथगिदमिदं न भवतीति प्रतीतिवैलक्षण्याद् पृथक्त्वम्न्योन्याभावो न भवतीति । यदि पञ्चमीपदसमभिव्याहारेऽप्यन्योन्याभावप्रतीतिर्भवति तदा नञ्पदसमभिव्याहारेऽपि घटान्न पट इति प्रतियोगेऽपि अन्योन्याभाव प्रतीतिः स्यादिति ततो भेदः । (८) संयोगः । मूले "संयुक्तव्यवहारे हेतुरिति यथा कालेऽतिव्यासिवारणायासाधारणपदम् । व्यवहारस्य पूर्वपदनिर्वचनात् विवक्षान्तरं लक्षणस्य । विभागप्रतियोगिकान्योन्याभाववत्त्वे सत्यनेकवृत्तिमात्र वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वं संयोगत्वम् । सत्यन्तं विभागेऽतिव्याप्तिः । वाचनार्थम गुणत्वपदानुपादाने द्रव्यत्वेऽतिव्याप्तिः । साक्षात् पदानुपादाने एतत्संयोगवत्त्वमादाय संयोगान्तरे१. B पक्षाः. २. This reading is corruptin B. ३. B पददानेनुपादाने (!) ४. It is संयुक्तव्यवहार हेतुः in त.भा.प्र. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306