Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 246
________________ तर्कतरङ्गिणी २०५ (६) परिमाणम् । परिमाणत्वजातिमदिति-यथाश्रुतमूले यस्यातीन्द्रियस्य परिमाणं न गृह्यते तत्र परिमाणेऽव्याप्तिः स्यात् । अत्राह तत्रापि परिमाणत्वं जातिरस्तीति विवक्षया । ननु परिमाणस्य परिमाणत्वं लक्ष्यतावच्छेदकत्वं तदेव यदि लक्षणं क्रियते तदा व्यतिरेक्यनुमाने वैय्यर्थापतिरिति चेत् न । कालवृत्तिवृत्तित्वे सति एकवृत्तिमात्रवृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वं परिमाणत्वम् । अयमर्थः कालवृत्तिर्यो गुणस्तत्र वर्तते या जातिः अथ चैकद्रव्यवृत्तिर्यो गुणस्तन्मात्रवृत्तित्वे सति, गुणत्वस्य साक्षाद्व्याप्या जातिः, तद्वत्त्वं प्रथम सत्यन्त रूपादावतिव्याप्तिवारणार्थम् । तत्राप्येकद्रव्यवृत्ति भवति रूपम् । तत्र वर्तते यो(या)गुणत्वसाक्षाद्व्याप्या जातिः रूपत्वस्वरूपा तद्वत्त्वं रूपे तिष्ठतीति । तथा च रूपत्वस्य कालवृत्तिर्यः संयोगादिः तद्वृत्तित्वान्नातिव्याप्तिः । एकवृत्तिर्यः संयोगादिः । एकवृत्तिमात्रवृत्तिपदं कालसंयोगादावतिव्याप्तिवारणार्थम् । तस्यापि कालवृत्तिवृत्तित्वे सति गुणत्वसाक्षाद् व्याप्या जातिः संयोगत्वरूपा, तद्वत्त्वं कालघटादिसंयोगेऽस्तीति । व्याप्यपदादाने गुणत्वमादाय गुणमात्रेऽतिव्याप्तिः स्यात् । तस्यापि कालवृत्तिवृत्तित्वे सति एकवृत्तिगुणत्वजातिमत्त्वमस्त्येव । एको भवति घटः, तद्वृत्ति रूपादिकम् तद्वृत्ति भवति गुणत्वमिति । तद्वत्त्च गुणमात्रे तिष्ठतीति तदर्थं गुणत्वव्याप्या या जातिरिति । साक्षात्कारपदं चैकत्वेऽतिव्याप्तिवारणार्थम् । तस्यापि कालवृत्ति यदेकत्वं-तत्त्वे सत्येको यो कालस्तवृत्ति यदेकत्वं तन्मात्रवृत्तिर्या गुणत्वव्याप्या जातिरेकत्वरूपा तद्वत्त्वं च कालैकत्वेऽतिव्याप्तिः स्यात् । तद्वारणार्थं साक्षात्पदम् । सङ्ख्यापरिमाणत्वस्यैव गुणत्वस्य व्याप्यत्वात् । जातिपदं समवायसम्बन्धेन तद्वत्त्वबोधार्थम् । अन्यथा द्रव्यादौ सर्वत्रातिव्याप्तिः स्यात् । द्रव्यस्यापि कालवृत्तिवृत्तिर्या' जातिः परिमाणत्वं तदेवैकवृत्तिमात्रवृत्तिर्भवति । सैव 'च गुणत्वसाक्षाद्व्याप्या जातिर्भवति । तद्वत्त्वं यथा परिमाणे तिष्ठति तथा स्वाश्रयाश्रयसम्बन्धेन द्रव्यमात्रेऽपि तिष्ठति । स्वशब्देन परिमाणत्वम्, तदाश्रयो भवति परिमाणम्, तस्याश्रयो भवति द्रव्यम्। अनेन सम्बन्धेन परिमाणं द्रव्ये वर्तते-इत्यतिव्याप्तिः । एतन्निरासार्थं समवायपदम् । तथा च समवायसम्बन्धेन परिमाणत्वं द्रव्ये नास्तीत्यतिव्याप्तिर्न भवतीत्यर्थः । अन्यथेति मूले यद्वर्तते 'मानव्यवहारासाधारणं कारणमिति, तत्र[T]साधारणपदकृत्यमाहकालादाविति । कालस्यापि कार्यमानं प्रति कारणत्वेन कालेऽतिव्याप्तिः स्यात् । तद्वारणार्थमसाधारणपदम् । १. B कालवृत्ति. २ B omits च. ३. B परिमाणत्वे वर्तते. ४. B -वायिपदम्. ५. A -व्यवहार साधा.. ६. B -मित्युक्तं. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306