________________
२०४
तर्कतरङ्गिणी नन्विति । तथा च द्वित्वनाशस्त्वेकत्वादद्यपेक्षाबुद्धिनाशेन 'जन्यते । तत्राशङ्कते यदि द्वित्वनाशोऽपेक्षाबुद्धिनाशेन' जन्यो भवति तदा द्वित्वस्य क्षणिकत्वं स्यात् । यथा घटकैत्वं पटैकत्वं बुद्ध्या इमौ घटपटाविदं द्वित्वं जनितम् । तत्र प्रथमे क्षणेऽयमेक इत्यपेक्षाबुद्धिर्जाता । द्वितीयक्षणेऽयमेक इत्यपेक्षाबुद्धिर्जाता । तृतीयक्षणे इमौ द्वाविति द्वित्वसङ्ख्योत्पद्यते । अस्मिन्नेव तृतीयक्षणे प्रथमापेक्षाबुद्धे शो वृत्तः । तथा च द्वित्वोत्पत्तिप्रथमापेक्षाबुद्धिनाशयोरेकैव क्षणो जातः । द्वित्वोत्पत्तिक्षणापेक्षया द्वितीय क्षणे द्वित्वनाश एव स्यात् । अपेक्षाबुद्धिनाशरूपकारणस्य सत्त्वात् । ततो द्वित्वस्य क्षणिकत्वं स्यादित्याशङ्कार्थः ।
न च यावदिति यद्यपि प्रथमापेक्षाबुद्धे शस्तत्र वर्तते तथापि यावदेपेक्षाबुद्धिनाशो नास्ति द्वित्वापेक्षाबुद्धेविद्यमानत्वादित्यपि न वाच्यम् । त्रित्वादीति - यत्र त्रित्वादिबुद्धिर्जायते तत्र यावदपेक्षा-बुद्धीनां मिलितं नास्ति, तृतीयापेक्षाबुद्ध्युत्पत्तिसमये प्रथमापेक्षाबुद्धे शात् ततः त्रित्वोत्पत्तिरेव न स्यादित्याशङ्कार्थः ।
समाधत्ते-समूहालम्बनेति तथा च त्रित्वोत्पत्त्यन्यथानुपपत्त्या तेषामेकत्वादीनां समूहालम्बनात्म(त्मि)कैकैव बुद्धिर्वाच्या । यथा प्रथमतोऽयमेकोऽयमेकः इत्यपेक्षाबुद्धिः प्रत्येकमेव जायते । तथा चैकत्वविषयकः संस्कारो जन्यते । तेन च समयान्तरे समूहालम्बनात्मिका एका स्मृतिरूपाऽपेक्षाबुद्धिर्जायते । तया च द्वित्वसङ्ख्योत्पत्तिः । यद्येवं तदा द्वित्वस्थलेऽपि क्षणिकत्वं वक्तुमशक्यम् । तत्रापि समूहालम्बनरूपाऽपेक्षाबुद्धिः स्मृतिरूपा स्वीकर्तव्या । तया च द्वित्वमुत्पाद्यते। तथा च द्वित्वोत्पत्तिसमयेऽपि अपेक्षाबुद्धेः सत्त्वेन तन्नाशाभावात् द्वित्वस्य न क्षणिकत्वमित्यर्थः ।
नन्विति - तथा च परमाणुद्वये पृथिव्यादिपरमाणुद्वये यत्र द्वयोत्पत्तिर्जायते तत्र कस्यापेक्षाबुद्धिरस्ति ? तत्र चास्मदादीनामपेक्षाबुद्धिर्नास्ति । तयोरतीन्द्रियत्वात् । तस्मादीश्वरापेक्षाबुद्ध्या परमाणुद्वयनिष्ठं द्वित्वमुत्पाद्यत इति । । तथा च यद्यपेक्षाबुद्धिनाशेनैव द्वित्वनाशो जायते तदा परमाणुद्वयनिष्ठ द्वित्वस्य नाश एव न स्यात् । ईश्वरबुद्धेनित्यत्वात् ।
उत्तरयति-तत्रेति अदृष्टविशेषनाश एव परमाणुनिष्ठद्वित्वस्य नाशक इति । न च परमाणुद्वयनिष्ठं च द्वित्वं च नित्यमेवेति वाच्यम् । तस्य भावकार्यत्वेनानित्यत्वात् । तथा च यत्र “दृष्टसामग्री न सम्भवति, तत्रादृष्टमेव कल्प्यते इति ज्ञेयम् । ननु कार्यद्रव्यनिष्ठं च नित्यमेवापेक्षाबुद्ध्या च व्यज्यत इति चेत्, न । तथा सति घटादीनामपि नित्यत्वप्रसङ्गात् । तत्रापि मृत्पिण्डादीनां घटादिव्यञ्जकत्वमेव वाच्यं स्यात् । १. A जन्य [:]. २. A बुद्धिनाशनाश्यो. ३. B क्षणिकत्वादित्या.. ४. B बुद्धिनाशात्. ५. B -रेवतस्यापीत्या.. ६. A omits पृथिव्यादिपरमाणुद्वये. ७. B -नश्यात्मत्वात् (!). ८. B दिष्ट.. ९. B तेषु तु कार्य-. १०. B कार्याकार्यनिष्ठं.
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org