Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 243
________________ २०२ तर्कतरङ्गिणी द्रव्यारम्भानुगुणक्रियानुत्पत्तेश्चेति । तथापि परमाणौ श्यामादिरूप निवृत्तिसमकालमेव रक्तरूपाद्युत्पत्तिरस्त्विति चेत् न । पूर्वरूपध्वंसस्यापि रूपान्तरोत्पत्तौ कारणत्वात् । कारणस्य च पूर्ववृत्तित्वादिति । अथ दशलक्षणप्रक्रिया । सा चेयम् द्वयणुकस्यारम्भकीभूतो यः क्षणः, तस्य यो विनाशः, तद्विषिष्टकालमपेक्ष्य परमाणुविभागेनाकाशादिदेशविभागो जन्यते । तदा दशक्षणाः । तथाहि-आवाहे घटनाशानन्तरं प्रथम क्षणे वह्निनोदनादभिघाताद्वा द्वयणुकारम्भके परमाणौ कर्मेति विषयः (१)। तेन च कर्मणा परमाण्वन्तरेण विभागः । द्वितीयक्षणे । (२) । तेन विभागेन तृतीयक्षणे द्वयणुकारम्भसंयोगनाशः । [३] । चतुर्थे क्षणे तेन संयोगनाशेन द्वयणुकनाशः । तस्मिन्नेव क्षणे विभागजो विभागः प्रवृत्तः । (४) पञ्चमे क्षणे श्यामरूपादिनिवृत्तिः पूर्वदेशसंयोगनाशश्च । (५) । षष्ठक्षणे रक्तरूपाद्युत्पत्ति उत्तरदेशसंयोगेश्चा । (६) तदनन्तरं सप्तमे क्षणे वह्निगोदनजन्यं यत्परमाणुनिलं कर्म तस्य विनाश: । एतन्मते पञ्चमक्षणावस्थायि कर्म । अष्टमे क्षणे तत्रैव परमाणौ अदृष्टवदात्मसंयोगाद् द्रव्यारम्भानुगुणक्रिया । (८) । नवमक्षणे पूर्वदेशेन समं विभागः । (९) दशमे क्षणे द्वयणुकोत्पत्तिः । (१०)। इति दशक्षणाः । तदनन्तरं रूपाद्युत्पत्तिः । अथैकादशक्षणप्रक्रिया । आवाहे घटादीनां त्रयणुकपर्यन्तं पूर्वनाशो जातः । तदनन्तरं सर्वासु प्रक्रियाषु द्वयणुकस्य कथं विनाशः ? कथं चोत्पत्तिरिति । उच्यते-पूर्व प्रथमे क्षणे वह्निनोदनाभिद्यातान्यरतरेण द्वयणुकारम्भपरमाणौ कर्म । (१) तदनन्तरं तृतीयक्षणे द्वयणुकारम्भसंयोगनाशः (२) । चतुर्थक्षणे द्रव्यनाशः । (३) । तदनन्तरं द्वयणुकविशिष्टं कालमपेक्ष्य विभागजविभागः । पूर्वदेशेन समं विभागजो विभागः । पूर्वं परमाणुनां समं विभागो वृत्तः । तेन देशान्तरेण सममिति विभागजो विभाग इति । (४) । तदनन्तरं षष्ठे क्षणे पूर्वसंयोगनाशः । (५) सप्तमे क्षणे उत्तरदेशसंयोगोत्पत्तिः । (६) । तदनन्तरमष्टमे क्षणे परमाणुकर्मनाशः । (७) तदनन्तरं नवमे क्षणे ऽदृष्टवदात्मसंयोगात्तत्रैव परमाणौ द्रव्यारम्भकानुगुणाक्रिया । (८) दशमे क्षणे ततो विभागः । (९) ततः पूर्वसंयोगनाशः (१०) । ततो द्रव्यारम्भकः संयोगः, ततो द्वयणुकोत्पत्तिः, ततो द्वयणुके रक्तरूपाद्युत्पत्तिः । [११] । इति द्वयणुकनाश विशिष्टकालमारभ्यैकादश क्षणाः । इयं पाकजप्रक्रियेति दिक् । (५) सङ्ख्या । सङ्ख्याप्रकरणे यथा-सङ्ख्यात्वजातिमतीत्यर्थरिति अन्यथेति । यदि मूलोक्तमेकत्वादिव्यवहारहेतुत्वं लक्षणं क्रियते तदाऽननुगमः । तथाहि-एकत्वव्यवहारहेतुत्वं तदा १. B omits च. २. B आवाहे प्रथमे क्षणे वह्निनोदनादभिघाताद्वाघटनाशं(शा)नन्तरं व्यणुकारम्भपरमाणौ कर्मेति प्रथमः. ३. A विभाग:. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306