Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 241
________________ २०० तर्कतरङ्गिणी ननु तेषामपाकस्थानानां घटादीनामापरमाण्वन्तविभागेन द्वयणुकपर्यन्तावयविनाशे' सति स्वतन्त्राः परमाणवः पच्यन्ते । अनन्तरं द्वयणुकादि प्रक्रमेण घटपर्यन्तावयविषु जातेषु सत्षु कारणगुणपूर्वकं तत्र घयदिषु रूपादय उत्पद्यन्ते । कल्पनागौरवपराहतत्वात् । द्वयणुकपर्यन्तं नाशः, घटपर्यन्तं पुनरप्युत्पत्तिकल्पनागौरवम् । किञ्च पाकादुत्तरितेषु घयदिषु स एवायं घट इति प्रत्यभिज्ञाऽपि भवन्मते न स्यात् । सर्वासु दशासु पाकक्षेपमारभ्य रूपोत्पत्तिपर्यन्तं घटस्य दर्शनं न स्यात् । भवन्मते द्वयणुकमारभ्य घटोऽन्य एवोत्पद्यते इति न युक्तम् । घयधुपरि पात्रान्तरधारणमपि तथैव दृश्यते इत्यपि न स्यात् । तथा संस्थानमपि प्राचीनमेव यथा वर्तते तथैव पाकानन्तरमुपलभ्यते । आपाकप्रक्षेपसमये रेखोपरेखादिकं च पूर्ववदुपलभ्यते । कथं द्वयणुकपर्यन्तं तन्नाशः ? सङ्ख्यापरिमाणमपि तथैवोपलम्भात्। तस्मात् घटादीनामेव पाको जायते । ___ नन्वन्तः स्थितानामवयवानामग्निसंयोगाभावाद् पूर्वपूर्वरूपादिनाशो रक्तरूपाद्युत्पत्तिश्च न स्यात् मध्यदेशावच्छेदेनाग्निसंयोगाभावादिति चेत्, न । न्यायमते सच्छिद्रत्वादेव । तथाह्यवयविनो यावन्तः पदार्थाः ते सच्छिद्रा एव । तेन मध्यदेशावच्छेदेनाग्निसंयोगस्तेन मार्गेण तत्रास्त्येव । नन्वयविसच्छिद्रतायां किं प्रमाणमिति चेत्, न । अन्तनिहितघृततैलादिस्रवणस्य जलादिनिर्गमनस्य च तत्र प्रमाणत्वात् । ततः सच्छिद्रा एवावयविनः । अणुमात्रानुप्रवेशात् । सर्वावयवावच्छेदेन कथं पाक: स्यादिति चेत्, न । अन्तः स्थितानामपि तण्डुलानां भस्मीभावदर्शनात् बहुतेजोनुप्रवेशः स्वीकर्तव्यः । इति न्यायेन वैशेषिकमतं दूषितम् । . अत्र वैशेषिका:-प्रत्यभिज्ञानं च सूचिविदलनत्रसरेणुके घटादौ खण्डघटोत्पत्त्याऽवयवं (अयं ?) स घट इति प्रतीति न स्यात् । भ्रान्तम् । न च तत्र द्रव्यं न नश्यते इति वाच्यम् । आरम्भकद्रव्यसंयोगनाशस्य द्रव्यनाशकत्वात् यथा बहुलतेजोऽनुप्रवेशात् सर्वावयवाच्छेदेन पाको जायत इति । तत्स(त)दा स्यात् यदि तावत्तेजोऽनुप्रवेशेनावयवी न नश्येत् । तेजसो ह्यतिवेगवत्तया नोदनाभिघातयोरन्यतरः संयोगोऽवयवविश्लेषहेतुक्रियाजनक' इति नावयविनाशः । येनाग्निसंयोगेनानन्तः स्थितोपलादीनामपि भस्मीभावस्तेन पीठरकं न नश्यतीति महती प्रतिज्ञा । । तथा च तेजोऽनुप्रवेशान्नोदनाख्योऽभिघाताख्यो वा संयोग उत्पद्यते । तेन संयोगेनावयवेषु कर्म उत्पद्यते । तेनावयवानां परस्परं विभागः क्रियते । तदनन्तरं तदारम्भकसंयोगनाशः क्रियते । तेन संयोगनाशेनासमवायिकारणनाशेनावयविनाशः क्रियते । तदनन्तरं च स्वतन्त्राः परमाणवः पच्यन्ते-इति स्थिते द्वयणुकनाशमारभ्य कतिभिःक्षणैः पुनद्वयणुकमुत्पाद्य रूपादिकं भवतीति शिष्यबुद्धिवैशद्यार्थं पाकजक्रियेयं लक्ष्यते । १. B -नाशेति-. २. B अपाक-. ३. B -ग्नियोग. ४. A omits न. ५. B प्रमाणसत्त्वात् । ६. B - श्लेषक्रियाहेतुजन.. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306