Book Title: Tarkatarangini
Author(s): Gunratna, Vasant G Parikh
Publisher: L D Indology Ahmedabad

Previous | Next

Page 268
________________ २२७ तर्कतरङ्गिणी भावाभावः । अत्र तु घटत्वातिरिक्तकल्पनायां गौरवम् । एवमन्योन्याभावात्य-न्ताभावस्थलेऽपि यत्र प्रतियोगितावच्छेदकधर्मस्य नानात्वं तत्र प्रतियोगितावच्छेदकधर्मापेक्षयाऽतिरिक्त एवाभावः । यत्र पुनरेकं तत्र प्रतियोगितावच्छेदकमेव तदन्योन्याभावात्यन्ताभावः । अत एव प्राचीनमतमप्यत्यन्ताभावात्यन्ताभावः प्रतियोग्येवेति । 'एवमन्योन्याभावात्यन्ताभावस्तु प्रतियोगितावच्छेदको धर्मः । इति स्थलविशेषे सुष्ट जातम् । (४) सामान्याभावः ननु नैयायिकमते सामान्याभावोऽस्ति, यथा वायौ रूपं नास्तीति प्रतीतिः सामान्यरूपाभाव एव तस्यां प्रतीतेविषय इत्यत्र किं प्रमाणमिति चेत्, न । सन्देहान्यथानुपपत्तिरेव । तत्र प्रमाणम् । तथाहि-यदि विशेषाभावादतिरिक्तः सामान्याभावो नास्ति तदा वायौ रूपं न वेति सन्देहो न स्यात्, वायुरूपवान्न वेति वा । पृथिवीरूपाद्यभावलक्षणविशेषाभावस्य तत्र निश्चितत्वादिति । निश्चयस्तु विपरीतबोधं प्रति प्रतिबन्धः । यथा भूतले घटनिश्चयानन्तरं भूतले घटो नास्तीति विपर्ययो भूतले घटोऽस्ति न वेति सन्देह श्च जायते, तथा प्रकृते वायौ रूपाभावविषयक: सन्देहोऽपि न स्यादिति। ननु सन्देहं प्रति निश्चयमा प्रतिबन्धकं न भवति, किन्त्वतिरिक्तसम्भावनाभावविशिष्ट एव निश्चयः । तथा सम्भावनाभावविशिष्टो न भवतीति सः । अतः विशिष्टो निश्चयाभावोऽस्तीति सन्देहो भविष्यतीति तत्र सामान्याभावोऽतिरिक्त इति चेत् न । तथा सति घटत्वत्यपि भूतले विषयस्य विशेषणाभावरूपस्य सत्त्वेन घटो नास्तीति प्रतीति: प्रमारूपार स्यात् । अतः न ततो विशेषाभावातिरिक्तः सामान्याभावो घटो नास्तीति प्रमीतविषयः । वस्तुतस्तु घटवति भूतले घो नास्तीति प्रतीतिरेव न जायते । भवन्मते च साम्यात् । तत्र विशेषणाभावस्य निश्चितत्वात् । न चैकावच्छेदेन रेयावद्विशेषणाभावस्य प्रतीतिविषयत्वात्, तथा च घटवति भूतले यावद्विशेषणाभावो नास्ति, वर्तमाने घटस्य तत्र सत्त्वेन यावद्विशेषाभावो नास्तीति तथा प्रतीतिरिति अत्रैव यत्र भूतले घटद्वयं तिष्ठति तत्र भूतले घो नास्तीति प्रतीतिरापादयितुं न शक्यते; तत्रापि यद्यपि यावद्विशेषाभावो वर्तते, एतद्घटद्वयातिरिक्तघटानामभावो विशेषाभावरूपस्तिष्ठत, अन्ययोरप्यधस्तात् परस्परं तिष्ठति, एकस्य परघटवति भूतले "परस्यापरघटवतिभूतले इति; यावद्घटविशेषाभावोऽस्ति, तथाप्येकदेशावच्छेदेन यावद् विशेषाभावो नास्तीति न तत्र घटो नास्तीति प्रत्ययः, अत एव पृथिव्यां जले च रूपं नास्तीति न प्रतीतिरेकावच्छेदेन यावद्विशेषाभावस्याभावादिति, तथा च यावद्विशेषा भावेनैव सर्वत्र निर्वाहादतिरिक्त सामान्याभावकल्पने प्रमाणं नास्तीति वाच्यम् । १. B omits इति । एवं. २. B -रूपस्य । अत:. ३. B omits the reading between यावद्विशे....भूतले. ४. B परस्पर.. ५. B प्रत्यक्षः. JainEducation International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306