________________
२२७
तर्कतरङ्गिणी भावाभावः । अत्र तु घटत्वातिरिक्तकल्पनायां गौरवम् । एवमन्योन्याभावात्य-न्ताभावस्थलेऽपि यत्र प्रतियोगितावच्छेदकधर्मस्य नानात्वं तत्र प्रतियोगितावच्छेदकधर्मापेक्षयाऽतिरिक्त एवाभावः । यत्र पुनरेकं तत्र प्रतियोगितावच्छेदकमेव तदन्योन्याभावात्यन्ताभावः । अत एव प्राचीनमतमप्यत्यन्ताभावात्यन्ताभावः प्रतियोग्येवेति । 'एवमन्योन्याभावात्यन्ताभावस्तु प्रतियोगितावच्छेदको धर्मः । इति स्थलविशेषे सुष्ट जातम् । (४) सामान्याभावः
ननु नैयायिकमते सामान्याभावोऽस्ति, यथा वायौ रूपं नास्तीति प्रतीतिः सामान्यरूपाभाव एव तस्यां प्रतीतेविषय इत्यत्र किं प्रमाणमिति चेत्, न । सन्देहान्यथानुपपत्तिरेव । तत्र प्रमाणम् । तथाहि-यदि विशेषाभावादतिरिक्तः सामान्याभावो नास्ति तदा वायौ रूपं न वेति सन्देहो न स्यात्, वायुरूपवान्न वेति वा । पृथिवीरूपाद्यभावलक्षणविशेषाभावस्य तत्र निश्चितत्वादिति । निश्चयस्तु विपरीतबोधं प्रति प्रतिबन्धः । यथा भूतले घटनिश्चयानन्तरं भूतले घटो नास्तीति विपर्ययो भूतले घटोऽस्ति न वेति सन्देह श्च जायते, तथा प्रकृते वायौ रूपाभावविषयक: सन्देहोऽपि न स्यादिति।
ननु सन्देहं प्रति निश्चयमा प्रतिबन्धकं न भवति, किन्त्वतिरिक्तसम्भावनाभावविशिष्ट एव निश्चयः । तथा सम्भावनाभावविशिष्टो न भवतीति सः । अतः विशिष्टो निश्चयाभावोऽस्तीति सन्देहो भविष्यतीति तत्र सामान्याभावोऽतिरिक्त इति चेत् न ।
तथा सति घटत्वत्यपि भूतले विषयस्य विशेषणाभावरूपस्य सत्त्वेन घटो नास्तीति प्रतीति: प्रमारूपार स्यात् । अतः न ततो विशेषाभावातिरिक्तः सामान्याभावो घटो नास्तीति प्रमीतविषयः ।
वस्तुतस्तु घटवति भूतले घो नास्तीति प्रतीतिरेव न जायते । भवन्मते च साम्यात् । तत्र विशेषणाभावस्य निश्चितत्वात् । न चैकावच्छेदेन रेयावद्विशेषणाभावस्य प्रतीतिविषयत्वात्, तथा च घटवति भूतले यावद्विशेषणाभावो नास्ति, वर्तमाने घटस्य तत्र सत्त्वेन यावद्विशेषाभावो नास्तीति तथा प्रतीतिरिति अत्रैव यत्र भूतले घटद्वयं तिष्ठति तत्र भूतले घो नास्तीति प्रतीतिरापादयितुं न शक्यते; तत्रापि यद्यपि यावद्विशेषाभावो वर्तते, एतद्घटद्वयातिरिक्तघटानामभावो विशेषाभावरूपस्तिष्ठत, अन्ययोरप्यधस्तात् परस्परं तिष्ठति, एकस्य परघटवति भूतले "परस्यापरघटवतिभूतले इति; यावद्घटविशेषाभावोऽस्ति, तथाप्येकदेशावच्छेदेन यावद् विशेषाभावो नास्तीति न तत्र घटो नास्तीति प्रत्ययः, अत एव पृथिव्यां जले च रूपं नास्तीति न प्रतीतिरेकावच्छेदेन यावद्विशेषाभावस्याभावादिति, तथा च यावद्विशेषा भावेनैव सर्वत्र निर्वाहादतिरिक्त सामान्याभावकल्पने प्रमाणं नास्तीति वाच्यम् । १. B omits इति । एवं. २. B -रूपस्य । अत:. ३. B omits the reading between यावद्विशे....भूतले. ४. B परस्पर.. ५. B प्रत्यक्षः.
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org