________________
२२८
तर्कतरङ्गिणी 'वायौ एकावच्छेदेनैव यावद्रूपविशेषाभावसत्त्वेन तन्निश्वयानन्तरं वायौ रूपं न वेति सन्देहो न स्यात् । यथा वायुत्वावच्छेदेन सर्वरूपाभावनिश्चयात्कथं सन्देहो भविष्यति ? तथा च सन्देहे विषयीभूतो रूपसामान्याभावोऽतिरिक्त एव । यद्युच्यतेऽतिरिक्तसम्भावनेत्यादि, तदा प्रतिबन्धकाभावस्य कारणत्वे कल्पनीये सामान्याभावासिद्धिः । यथा करतलानसंयोगानन्तरं मणिसत्त्वे दाहो न जायते, मण्यभावे सति जायते, तथा भवन्मते मणिप्रागभावस्य मणिध्वंसस्य मणिविशेषाभावानां च दाहं प्रति कारणत्वं कल्पनीयम्, तदपेक्षया लाघवात् । मणित्वावच्छिन्नप्रतियोगिताकाभावस्यैव कारणत्वं कल्पनीयम् । लाघवात् । अनेकेषां मणिप्रागभावादीनां कारणत्वकल्पने गौरवम् । तथा च लाघवाद्विशेषाभावातिरिक्त एक: सामान्याभाव कल्प्यते । अत एव कार्यकारणानुरोधेन प्राचीनमतं दूषयित्वा शिरोमणिनाऽवयविनि घटदौ रूपसामान्याभावः साधितः । प्रमाणत्वमेव यथोत्पत्तिकालावच्छिनो घट: रूपसामान्यभावान्यतरवान् । प्रमेयत्वात्पटादिवदिति । अत्रानुकूलतर्कस्तु कार्यकारणभावः । घटरूपोत्पत्तिं प्रति घटरूपं प्रतिबन्धकं भवति । तथा च घटरूपप्रागभावादीनां कारणत्वकल्प्यमाने गौरवम् । लाघवात् "रूपत्वावच्छिनप्रतियोगिताकाभावस्य सामान्याभावरूपकारणत्वं वाच्यमिति सामान्याभावः सिद्धः ।
वस्तुतस्तु इह भूतले घटो नास्तीति प्रतीत्यैव सामान्याभावः सिध्यते । तथाहि भूतले घटो नास्तीत्यत्रानेकेषां घटप्रतियोगिकाभावानां घटो नास्तीति प्रतीतिविषयं कल्पनीयम् । उतारिक्तस्यैकस्यैव तथा प्रतीतिविषयत्वं कल्पनीयं-लाघवात् । एक एव सामान्याभाव एव विषयाभावातिरिक्तस्तथा प्रतीतिविषयः स्वीकर्तव्य इति दिक् । (५) प्रागभावः ।
प्रागभावं लक्षयति-उत्पत्तेरिति कारणेति-समवायिकारणे कपालादावुत्पत्तेः प्राक् कार्यस्य घटादेरभावः प्रागभाव इत्यर्थः । अन्योन्याभाव इति कपाले घटो न भवतीति प्रतीत्या घटान्योन्याभाव उत्पत्तेः प्रागपि कपाले तिष्ठतीत्यतिव्याप्तिरित्यर्थः । न चेति अन्योन्याभावेऽतिव्याप्तिवारणार्थम् । संसर्गाभाव इति तथा चोत्पत्तेः प्राक् कारणे कार्यस्य संसर्गाभाव इति वाच्यम् ।
दूषयति-दण्डादीति दण्डादौ कारणे घटस्य योऽत्यन्ताभावस्तत्रातिव्याप्तिरित्यर्थः । समवायिकारणेति-यद्यभावस्यात्यन्ताभावेऽतिव्याप्तिवारणार्थं समवायिकारणवृत्तित्वे सत्युत्पत्ते प्राक कार्यस्य संसर्गाभावः प्रागभावः-इति लक्षणे दूषणमाह-तद्वत्तीति - यद्यपि घटोत्पत्तिपूर्वकाला
१. A om its वायौ. २. B यावद्विषयवि.. ३. B omits the reading between अनेकेषां......... ............तरवान्. ४. B रूपस्थत्वाव..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org