________________
तर्कतरङ्गिणी
२२९ वच्छेदेन समवायिकारणवृत्तित्वं तिष्ठति तथापि घटोत्पत्त्यनन्तरकालावच्छेदेन घटप्रागभावे 'घटसमवायिकारणवृत्तं नास्तीत्यव्याप्तिरित्यर्थः ।
यधुपलक्षणत्वं समवायिकारणवृत्तित्वस्योच्यते यदा कदापि समवायिकारणवृत्तित्वमुच्यतेउपलक्षणमेतदिति तेन विशेषणत्वं नास्तीति दूषयति-अवच्छेदकाभाव इति उपलक्षणत्वं च तत्रैव सम्भवति यत्रोपलक्ष्यतावच्छेदकं किञ्चिद्भवति । यथा 'काकवत् देवदत्तगृह'मित्यत्रोतृणत्वमुपलक्ष्यतावच्छेदकम् । गतेऽपि काके देवदत्तगृहे, उत्तृणत्वेन हेतुना काकवत्त्वं प्रतीयते । यथा पूर्वकालावच्छेदेनात्र काको ऽभूदिति प्रतीतिस्तथा प्रकृते उपलक्षणतावच्छेदको धर्मः कश्चिन्नास्तीति नोपलक्षणं समवायिकारणवृत्तित्वमित्यर्थः ।
वस्तुतस्तु घटसमवायिकारणदेशे कपाले यो वर्तते घटत्यन्ताभावस्तत्रातिव्याप्तिः । न च तत्रात्यन्ताभावो नास्त्येव, तत्र विरोधिनो ह्यत्यन्ताभावस्य सत्त्वात्, त्रयोऽत्यन्ताभावविरोधिनः प्रागभावध्वंसप्रतियोगिरूपा इति वाच्यम् । यदि समवायिकारणदेशे कार्यस्यात्यन्ताभावो नास्तीतिति, तदोत्पत्तिपूर्वकालावच्छेदेन कपाले घो नास्तीति प्रतीतिर्न स्यात् । न च प्रागभावविषयिण्येवेयं प्रतीरिति वाच्यम् । घटत्वावच्छिन्न प्रतियोगिताकाभावास्वीकारात् । घटत्वं हि प्रागभावप्रतियोगितावच्छेदकं "न भवति । घटत्वस्य प्रागभावप्रतियोगितातिरिक्तवर्तमाने घटेऽपि वर्तमानत्वात् ॥ किन्तूत्पत्स्यमाने घटत्वं प्रागभावप्रतियोगितावच्छेदकमिति ।
तथा च कपाले घटो नास्तीत्यत्र घटत्वं प्रतियोगितावच्छेदकत्वेनैव प्रतीयते । अन्योन्याभावो न प्रतीयते । अनुयोगिनि सप्तम्युल्लेखात् । यथा कपाले घटो नास्तीति । अन्यथैतादृशी प्रतीतिः प्रागभावविषयिण्यपि जायते । यथा यस्मिन्घटे पीतं रूपमुत्पन्नमग्रे उत्पत्स्यते पाकेन रक्तं रूपं तत्र पीतरूपवत्यपि घटे रक्तरूपस्य प्रागभावो वर्तते । तथा च घटे रूपप्रागभावत्वमेव, पीतरूपवत्यपि घटे रूपं नास्तीति प्रतीति: स्यात् । भवन्मते रूपत्वस्यापि प्रागभाव प्रतियोगितावच्छेदकत्वात् । विषयसत्त्वे सत्यवश्यं तादृशी प्रतीतिर्भविष्यत्येव, बाधकाभावात् । मन्मते त्वियं प्रागभावविषयिणी प्रतीति न भवति । भवति चेयमत्यन्ताभावविषयिणी। तथा च पीतरूपवति घटे रूपं नास्तीति प्रतीति न जायते। प्रतियोगिलक्षणस्य विरोधिनस्तत्र सत्त्वात् । अत्यन्ताभावं प्रति तु "समानकालाव-च्छेदे नैकाधिकरणतावच्छेदेन प्रतियोगिसत्त्वस्यैव विरोधित्वात् । प्रागभावप्रध्वंसयोरत्य-न्ताभावविरोधित्वे प्रमाणाभावात्। ततो घटोत्पत्तिपूर्वकालावच्छेदेन समवायिकारणे कपाले जायते घटो नास्तीति प्रतीतिः । तद्विषयोऽत्यन्ताभाव एव । तेन तत्रातिव्यासिः । १. B प्रघट.. २. It is उपलक्षणत्वमेतद् in the त. भा. प्र. ३. B उपलक्षणं. ४. B तृणमुप.. ५. A repeats the reading between न भवति...............च्छेदक. ६. B प्रतियोगित्वा.. ७. B सामान्यकाला.. ८. B omits the reading between नैकाधिक...........वच्छेदक.
___ Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org