________________
२३०
तर्कतरङ्गिणी न च प्रागभावोच्छेद इति वाच्यम् । घये भविष्यतीति प्रतीतिर्घटप्रागभाव एव विषयिणी' । भविष्यत्वं च वर्तमानप्रागभावप्रतियोगित्वम् । यद्यत्राप्यत्यन्ताभाव एव विषय इत्युच्यते तदा यो घटः कपाले ध्वस्तस्तद्विषयिणी घटो भविष्यतीति प्रतीति: स्यात् । घटत्यन्ताभावस्य तदानीमपि सत्त्वात्। ततो घये भविष्यतीति प्रतीति घटप्रागभावविषयिण्येव । तथा च कपाले घटप्रागभावध्वंसौ तिष्ठतः, तथा च घटत्यन्ताभावोऽपि तदानीं तिष्ठत्येव ।
न चानया घटो भविष्यतीतिरूपया प्रतीत्या प्रागभावो न सिध्यति, भविष्यत्त्वं च न वर्तमानप्रागभाव प्रतियोगित्वम्, किन्तु वर्तमानकालोत्तरकालोत्पत्तिकत्वम्, तथा च न प्रागभावसिद्धिरिति वाच्यम् । कार्यकारणभावानुरोधेन प्रागभावत्वस्वीकारात् । तथाहि यथा सहस्रन्तुषु सहस्रतन्तुक एको पट उत्पद्यते । एतत्पटस्य स्वानधिकरणे तन्तावुत्पत्तिवारणाय विशेषकार्यकार-णभावोऽपि स्वीकर्तव्य एव । अन्यथा यदि तन्तुत्वेन पटत्वेन च सामन्यतः कार्यकारणभा-वसत्त्वेन सहस्रतन्तून्विहाय तन्त्वन्तरेऽपि पटोत्पत्तिप्रसङ्गवारणाय तत्र तन्तुत्वेन तत्तत्पटत्वेन च कार्यकारणभावो वाच्यः । तथा च सहस्रतन्तुकपटोत्पत्तौ सहस्रकार्यकारणभावाः स्वीकर्तव्या इति गौरवम् । तदपेक्षया सहस्रतन्तुष्वेतत्पटप्रागभाव एकः स्वीकर्तव्यः, लाघवात् । तथा च यत्र देशे एतत्पटप्रागभावो वर्तते तत्रैवैतत्पट उत्पद्यते, न स्वाधिकरणदेशतन्तौ । तत्र प्रागभावरूपकारणाभावात्। तथा चैतत्पटत्वेनैतत्त-न्तुत्वेनापि विशेषकार्यकारणभावोऽपि स्वीक्रियते । तत्र प्रागभावस्यैव नियामकत्वादिति प्रागभावसिद्धिरिति दिक्। (६) प्रध्वंसाभावः
'सादित्वे सतीति अनन्तत्वमात्रमत्यन्ताभावेऽतिव्याप्याप्तम् । अतः सत्यन्तम्।
ननु ध्वंसस्यापि ध्वंस स्वीकर्तव्यः, न च घटोन्मज्जनप्रसङ्गेन तत्स्वीकार इति वाच्यम् कपालद्वयसंयोगादिकारणता भावेन घोन्मज्जनं न भवतीति चेत्, न ।
घटध्वंसस्य ध्वंस: किमतिरिक्तः पदार्थो वा घटस्वरूपं वा ? नाद्यः । अतिरिक्तकल्पनायां प्रमाणाभावात् । न द्वितीयः । भावेऽभावत्वानङ्गीकारात् । अनन्यगत्या प्रागभावध्वंसानधिकरणकाले प्रतियोगिसत्त्वनियमात् । तथा च प्रागभावध्वंसौ यदा न तदा प्रतियोगिसत्त्वं स्यादिति ।
अन्योन्येतीति । तथा च तादात्म्यमसद्भवति । कोऽर्थः ? तादात्म्यं कश्चिदतिरिक्तः पदार्थः नास्ति, तेन तत्प्रतियोगिकत्वेनान्योन्याभावोऽप्यसन्ननैवेति-तुच्छ एवेत्याशङ्कार्थः । प्रतियोगितेति प्रतियोगितावच्छेदस्य योऽऽरोप्यस्तस्य वा धीस्तस्यां विषयोऽन्योन्याभाव इत्यर्थः । यथा घटः पटो
१. A विषयः. २. B अस्य द्वित्वे सतीति (!). ३. B इत्यर्थः कपाल.. ४. B सत्त्वानियमात्. ५. B तस्य विषयोऽन्यो...
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org |