________________
तर्कतरङ्गिणी
२३१ न भवतीत्यत्र घटत्वं पूर्वं 'पटेऽऽरोप्यते । यतो घटत्वं पटे नास्तीति । अत एव तदारोप्यते । घटः पटः इत्येतावन्मात्रे घटत्वारोपः, उत्तरत्र तन्निषेध इत्यर्थः । तथा च प्रतियोगितावच्छेदकं च सदेव । तेन च नान्योन्याभावस्य तुच्छता ।
[इत्यभावग्रन्थः समाप्तः ।]
[२४] प्रमेयप्रकरणम् । [Cont.] (VI) बुद्धिः ।
अथ च प्रमेयसूत्रान्तर्गत बुद्धिपदार्थमाह-स्वप्नस्येति -तथा च स्वप्ने इदंता, [त]त्प्रत्यक्षविषयिणी निद्रारूपदोषादेवेत्यर्थः । जाते इति उत्पन्नं यज्ज्ञानं तत्र स्वविषयीभूतेनार्थेन स्वस्याकारो ज्ञाने जन्यते । तथा चार्थेन स्वाकारो ज्ञाने जन्यते-इति --इत्येकः पक्षः। द्वितीयपक्षार्थस्तु यदा ज्ञानमुत्पद्यते तदा स्वीकारः स्वशब्देन विषयस्तस्याकारः, स्वरूपं तद्विशिष्टत्वेन यदा घटज्ञानमुत्पद्यते तदा घटरूपेणैवोच्यते । इति द्वितीयपक्षार्थः ।
ज्ञानज्ञानेति-यथा घटमहं जानामीत्यत्रार्थो घटोऽपि भासत इति ज्ञानज्ञानस्यार्थ निरुप्यत्वम् ।
इदं दूषयति-ज्ञानमस्तीति अत्रार्थप्रतिपादकपदाभावाज्ज्ञानमात्रप्रतिपादकसत्त्वात्' शुद्धज्ञानमेव भासते । ततः सर्वं ज्ञानमर्थनिरुप्यं न भवतीत्युक्तं सामग्र्यसम्पत्तिरिति विषयप्रतिपादकपदरूपा सामग्री तत्र नास्तीति न विषयनिरुप्यत्वं ज्ञानमात्रस्येत्यर्थः । (VII) प्रवृत्तिः ।
सूत्रस्थां प्रवृत्तिः व्याचष्टे-धर्माधर्ममयीति प्रवृत्तेः धर्माधर्ममयत्वं धर्माधर्मस्वरूपत्वं न सम्भवतीत्यन्यथा व्याचष्टे-धर्माधर्मजनकेति- तथा च प्रवृत्तेर्लक्षणं अदृष्टस्य जनको योऽनित्ययत्नः तत्त्वम् । तथा चादृष्टजनकपदं जीवनयोनियत्नेऽतिव्याप्तिवारणार्थम् । येन यत्नेन निद्रादशायामपि श्वासादिकमुत्पद्यते तददृष्टजनकत्वं न भवतीति न न लक्ष्यम् । लक्ष्यतावच्छेदकं च धर्माधर्मजनको यः संसारियत्नस्तत्त्वं लक्ष्यम् । लक्ष्यतावच्छेदकं च तथा यत्र धर्माधर्मजनकः संसारियनस्तत्रैव तल्लक्षणम्, जीवनस्य योनि:कारणम्, एतादृशो यो यत्नस्तत्र लक्ष्यतावच्छेदकं नास्तीति तदलक्ष्यम् । तद्वारणमर्थमदृष्टजनकं पदम् । वाग्क्रियावाग्यनः । तथा च वागुच्चारणविषयकः प्रयत्न इत्यर्थः।
आत्मेति - आत्मधर्मस्य ज्ञानरूपस्योपादानद्वारा ग्रहणद्वारा । तथा च ज्ञानेनेच्छा, इच्छया च यः प्रयत्नः, प्रयत्नेन च क्रिया, क्रियया कृत्वा प्रयत्नस्यानुमानं क्रियते । १. B omits पटे. २. B omits च. ३. B अत्र. ४. B -शिष्टेन. ५. B -पादकपदसत्त्वात्. ६. B om its न.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org