________________
२३२
तर्कतरङ्गिणी बुद्धिशब्दार्थमाह-बुद्धिश्चेति । अत्र बुद्धिपदेनेदं विवक्षितम्-यथा भोगावच्छेदिका कारणीभूता या क्रिया, तद्द्वारा तादृशो यो प्रयत्नः अदृष्टजनकी भूतो यः, स एव शरीरारम्भकः । तथा च मनस(सि) भोगजनिका क्रियोत्पन्ना, तद् द्वारा प्रयत्नः उत्पन्नः । तदनन्तरमदृष्टमुत्पन्नम्, तदनन्तरं कालान्तरे तेनैवादृष्टेन शरीरमारभ्यते इत्यन्वयः । यथा सामान्यतः पूर्वं यागविषयकं ज्ञानं जायते, तदनन्तरं यागे इच्छा जायते । तत इच्छया यागविषयकः प्रयत्नः उत्पाद्यते, तदनन्तरं प्रयत्नेन यागादि क्रिया जन्यते । तया पुनरदृष्टमुत्पाद्यते । तदैव यागस्य द्वारं स्वर्गजनने स्वर्गसुखजनने । सुखं च शरीरव्यतिरेकेण न सम्भवतीति प्रथमतोऽदृष्टेन शरीरमुत्पाद्यते । तदवच्छेदेनात्मनि यागजन्यादृष्टेन सुखं जन्यते इति प्रयत्नस्य परंपरया भोगजनकत्वं तिष्ठतीत्यभिप्रायः । (VIII) दोषाः ।
__ अथ "दोषानाह-दोषैः प्रवृत्ति र्जन्यते । अत एव योगिनां दोषाभावेन कुत्रापि प्रवृत्तिर्न जायते। अतो न तेषां धर्माधर्मोत्पत्तिः ।
प्रवृत्तिजनकेति तथा च दोषसामान्यलक्षणमिदम् । यथा प्रवृत्तिजनकीभूता ये आत्मानं प्रति विशेष गुणास्तत्त्वं दोषत्वम् । इदं च रागादित्रयेऽपि सामान्यलक्षणं तिष्ठतीति सामान्यलक्षणं हदि विचार्य विभजते दोषात्-अदृष्टजनकेति, इदं रागस्य लक्षणम् । यथा-अदृष्टजनकी भूतो यो यत्नस्तस्य जनकीभूतेच्छा स राग इत्यर्थः । तथा चादृष्टकारणं भवति यत्नः, यत्नस्य कारणं भवतीच्छा । यथा पूर्वमिच्छा, ततो यत्नक्रियाकारणीभूतात्मविशेषगुणाः । इच्छाव्यतिरेकेण यत्नानुत्पादात् । ततो यत्नाददृष्टमुत्पद्यते । अदृष्टं तु यागादि विषयकयत्नेनैव जन्यते । नापि गमनविषयकेणेति रागः इच्छारूप: उक्तलक्षणः ।
नात इति "जीवन्मुक्ते नारदादावदृष्टाभावाददृष्टजनको यत्ननो नास्तीति न तेषां राग इत्यर्थः । द्वेषत्वेति तथा च दुःखजनकीभूतादृष्टजनकत्वमेव द्वेषत्वमात्मन इति । (IX ) प्रेत्यभावः ।
तथा चात्मनः पूर्वदेहेन समं विभागे सत्त्युत्तरदेहेन यः सम्बन्धः स एव प्रेत्यभाव इत्यर्थः । (X) फलम् (भोगः)।
“मूढभाव( भोग ?) इति । नारदादिभोगादौ तु मिथ्याज्ञानाभावात् मूढभोगो नास्ति । मूढभोगस्तु सांसारिकभोग एवेति भावः ।।
-
१. Bom its द्वारा. २. Bomits the reading between तदनन्तर....ज्ञानं जायते। ३. B -जनकं. ४. B दोषमाह. 1.A गुणास्त..६. B -गुणः.७. B तथा चात्मनः जीवन्म.. ८. This प्रतीक is not found in त.भा.प्र.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org