________________
तर्कतरङ्गिणी
(XI) दुःखत्वम् (पीडा ) ।
आत्मापवर्गेति आत्मन्यतिव्याप्तिवारणार्थं मोक्षेऽव्याप्तिवारणार्थं चात्मापवर्गान्यत्वे सतीति विशेषणम् । दुःखवृत्ति यत्प्रमेयत्वं तद्दुःखत्वम् । तथा च यत्प्रमेयत्वं दुःखे वर्तते तदेवातिव्याप्तमात्मन्यपवर्गे चास्तीति । तद्वारणार्थं तदन्यत्वं हेयत्वमिति तथा दुःखं हेयमेवेत्यत्र सुखं यद् दुःखं तस्यैव प्रवेश इति । नात्माश्रय इति अन्यथाऽऽत्माश्रयः स्यात् । यथा दुःखसम्बन्धि प्रमेयत्वमिति दुःखस्य लक्षणं कृतम्, तथा च दुःखलक्षणे क्रियमाणे दुःखस्य, लक्षणे प्रवेशो जायते । इत्यात्माश्रयः स्यादित्यर्थः ।
(XII) अपवर्ग: (मोक्षः) ॥
मननमिति यथा शास्त्रेण समस्तपदार्थानां विदितत्वं येन सः तस्येति । अनुमितिरूपं ज्ञान मननम् । वैराग्यमिति ध्यानस्य कारणं वैराग्यम् । न तु परममिति तथा च परमं तत्त्वज्ञानं ध्यानं प्रति कारणं न भवति । तस्य तत्त्वज्ञानस्य ध्यानोत्तरकालभावित्वात् । कारणं तु पूर्व कालवर्त्येव भवतीति भावः । ध्यानपरि [ पाक] - इति निदिध्यासनस्यायमर्थः । यः ध्यानपरिपाकेन ध्यानदिसमाप्त्या योगजधर्मः योगाभ्यासेन यः संस्कारविशेषः स योगजः धर्मः नाम निदिध्यासनमित्यर्थः । साक्षात्कार इति ईश्वरसाक्षात्कार इत्यर्थः । ननु निष्कामस्येति मूले किमर्थमुक्तमित्यत्राभासं दर्शयति-नन्विति तथा च प्राचीनकर्माणि यान्यनुक्तानि तेषां क्षयस्तु भोगमन्त रा ( रेण ? ) न सम्भवतीति तैः कर्मभिः भोगोऽवश्यं जननीय एव । तथा च भोगकाले च यया क्रियया भोग उत्पद्यते तया च क्रिययाऽदृष्टान्तरमवश्यमुत्पादनीयमेव । तेनादृष्टेन च पुनरपि भोगान्तरेऽपि उत्पादनीयमिति क्रमेणादृष्टद्वारा भविष्यति । कुतो मोक्षः - इत्याभासार्थ: ५ । 'निष्काममिति तथा च येन पुरुषेण कामा (म)नां विना गङ्गास्नानादि कर्म क्रियते तेनादृष्टान्तरं नोत्पद्यते इति भाव: । योगप्रभावादिति मूलम् योगप्रभावात्तत्वज्ञानजनकीभूतात् पूर्वजन्मकृतं कर्म । तथा योगेन तत्त्वज्ञानमुत्पनम्, तेन पूर्वकृतं कर्म जातम् । तदनन्तरं भोगद्वारा पूर्वकर्मक्षयो जातः, भोगेन सर्वकर्मणां क्षयो जातः, तो वर्तमानशरीरादिनाशः' । तदनन्तरमेकविंशतिदुःखसम्बन्धो न भवति । कर्मरूपकारणाभावादिति स्वसमानाधिकरणदुःखावृत्तिः दुःखध्वंसो मोक्षः । स्वशब्देन दुःखध्वंसो ग्राह्यः । तत्समानाधिकरणं दुःखावृत्तिः यद् दुःखं तस्य यो ध्वंसः स मोक्ष इत्यर्थः ।
२३३
दुःखावृत्तित्वं नाम कालिकसम्बन्धेन ग्राह्यम् । कोऽर्थः ? यद् दुःख ध्वंसानन्तरं, तस्मिन्नेवात्मनि दुःखं नोत्पद्यते । तथा च यदा चैत्रीयदुःखध्वंसः नास्तीति कालिकसम्बन्धः । तेन
१. B - माश्रयत्वं. २. A omits लक्षणे. ३. B - श्रय इत्यन्यथाऽऽत्माश्रयः. ४. B परमिति. ५. B – भासमित्यर्थः । ६. It is निष्काम in त. भा. ७. It is योगाभ्यासप्र., in त. भा. ८. B शरीरस्य नाशः । ९. B -ध्वंसास्त..
तर्क. - ३०
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org