________________
२३४
तर्कतरङ्गिणी चरमदुःखध्वंस एव मोक्षः । स च स्वसमानाधिकरणं यद् दुःखम्, तत्र यो दुःखध्वंसो न वर्तते सांसारिकदशायां चैकाधिकरणवृत्तित्वसम्बन्धेन दुःखध्वंसः उत्तरदुःखे वर्तते इति तन्निरासः । यदि स्वसमानाधिकरणपदं न दीयते, तदा चैत्रीयदुःखध्वंसो मैत्रीयस्य मोक्षः स्यात् । तद्वारणाय स्वसमानाधिकरणपदम् । दुःखावृत्तिपदादाने संसारदशायां दुःखध्वंससत्त्वेन मोक्षत्वप्रसङ्गः स्यात् । अत उक्तं दुःखावृत्तिपदम् ।
अथवा वर्धमानोक्तमेव लक्षणं ग्राह्यम् । यथा समानकालीनसमानाधिकरणदुःखप्रागभावासहवृत्तिदुःखध्वंस इत्यस्यैव पूर्वोक्तलक्षणम्(णा)र्थम् । अत्र गौरवमनेकपददानादिति दिक् । मोक्षं प्रत्यसाधारणं कारणं तत्त्वज्ञानमेव । काशीमरणादिकं मोक्षं प्रति तत्त्वज्ञानेन प्रयोजकम्, न स्वातंत्र्येण कारणमिति नात्र विस्तरः । (२६) संशयनिरूपणम् ।।
संशयलक्षणे एकस्मिन्निति एकस्मिन्नधर्मिणि इदं शब्द वाच्ये उच्चस्त्वादि धर्मि(म) विशिष्टे विरुद्धाः ये नानार्थाः स्थाणुत्वादयस्तेषां योऽवमर्शो ज्ञानं स एव सन्देहः । यथाऽयं स्थाणुर्न वा । अत्र विरुद्धार्थाः भवन्ति स्थाणुत्वस्थाणुत्वाभावरूपाः । अयं द्विकोटिकः । यदाऽयं स्थाणुर्वा पुरुषो वेति सन्देहस्तदा चतु:कोटिसंशयो भवति । स्थाणुत्व-तदभाव-पुरुषत्व-तदभावरूपाः चतस्त्र कोट्यः ।
अत्राशङ्कते-नन्विति यथा जलं गन्धवदित्यत्र निश्चयरूपे ज्ञाने एकस्मिन् धर्मिणि जले विरुद्धौ यौ जलत्वरूपगन्धरूपपदार्थों तयोरवमर्शत्वं वर्तते एवेति । अस्यापि संशयत्वं स्यादित्यतिव्याप्तिरित्याशङ्कार्थः । समाधत्ते-एकस्मिन्निति - तथा चैकस्मिन्न धर्मिणि स्फुरन्विरोधो येषां ते स्फुरन्विरोधा:-ज्ञायमानविरोधा इति यावत् । तेषां च "पदार्थानां परस्परं विरोधो ज्ञायते इति। एतादृशपदार्थानां अवमर्शो-ज्ञानं संशयः । तथा च जलं गन्धवदित्यत्र निश्चयरूपे ज्ञाने नातिव्याप्तिः, तत्र जलत्वगन्धयोः परस्पर विरोधेऽपि तदानीमज्ञानान्नात्र विरोधो ज्ञायमान इति न तत्रातिव्याप्तिरित्यर्थः ।
अत्र त्रिविधसंशयस्य प्रथमभेदमाह-एकेति समानाधर्मवत् यद् धर्मि, तस्य यज्ज्ञानं तदनन्तरमुभय कोटिस्मरणं भवति । तदनन्तरं-कोटिद्धयस्मरणानन्तरं समानधर्मदर्शनजः सन्देहो भवति। यथा समानधर्मो भवत्युच्चस्त्वम् तस्य पुरुष स्थाणौ च सत्त्वात् । तथा च कालान्तरे सन्निकृष्टे पुरोवर्तिन्युच्चस्त्वविशिष्टे पदार्थे दोषवशात् पुरुषत्वं स्थाणुत्वं च तनिश्चितमिति उच्चस्त्वरूपधर्मेण चोभयरूपा कोटिः स्मर्यते । एकसम्बन्धि ज्ञानान्तरमुभयस्मरणेन संशयो भवति । एतदेव स्पष्टयतितत्रेति-अन्यथा समानधर्मेण कोटिस्मरणं विनाऽन्यकार्यजननात् सम्बन्धिज्ञानत्वेन । तथा १. B अत्र शङ्कते. २. B omits the reading between स्फुरन्वि....येषां ते. ३. B येषां. ४. A repeats the reading between पदार्थानां......इति after पदार्थानां. ५. B अत्रेति. .
Jain Education International 2010_05
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org