________________
तर्कतरङ्गिणी
२३५ चोच्चस्त्वस्य पुरुषेऽपि स्थाणावपि सहचारस्य वर्तमानत्वादुभयकोटिस्मारकमते(तमि)ति ज्ञेयम् ।
द्वितीयमाह-विप्रतिपत्तिरिति विप्रतिपत्तिस्तु विरुद्धार्थप्रतिपादकः शब्दः । तथा च विप्रत्तिपत्त्या उभयकोटिरूपौ यो विरुद्धार्थी, तयोः स्मरणं जन्यते । तथा चोभयकोटिस्मरणद्वारा विप्रतिपत्तिरपि संशयहेतुः । यत्कोटिद्वयस्मरणं तस्यापि हेतुर्विप्रतिपत्तिः । यथा शब्दो नित्यो न वेति मध्यस्थस्य सन्देहो भवति । नित्यपदेन नित्यत्वरूपा कोटिरूपस्थापिताऽनित्यपदेन चानित्यरूपा कोटिरूपस्थापिता ।
ननु नित्यपदेन नित्यपदार्थोपस्थितिः कृतेति मध्यस्थस्य सन्देहो भवति । अनित्यपदार्थेनानित्यपदार्थस्योपस्थितिकृतेत्यन्यतरस्य निश्चयो न जातः । प्रतिबन्धकं च तदभावज्ञानम् । तथा चाभावज्ञाने विद्यमाने शाब्दबोधरूपनिश्चयो न भवति । संशयस्तु शाब्दबोधज्ञानरूपो भविष्यति। संशयज्ञानं प्रत्यक्षरूपं विप्रतिपत्तिजन्यं किमित्यत आह-शाब्दस्येति । तथा च योग्यतारूपशाब्दज्ञानं प्रति प्रतिबन्धकमस्तीति न संशयः शाब्दरूपमिति भावः । यथा भूतलादौ घटाभावज्ञानं शब्देन वा प्रत्यक्षेण वा जातं तदा घटविषयकं शाब्दज्ञानं तत्र न भवतीति न शब्दः संशयः, किन्तु प्रत्यक्षमेव ज्ञानं संशयः ।
तृतीयमाह-असाधारणेति विरोधिसम्बन्धेनासाधारणधर्मकोटिद्धयमुपस्थापयतीति । तत्रासाधारणधर्मोऽपि संशयजनकं यद्विरुद्धकोटिद्वयस्मरणं तत्रोपयोगीति । यथा गन्धत्वरूपो धर्मोऽसाधारणो भवति, भूमात्रवृत्तित्वात् । धर्मिणि विरोधिसम्बन्धेन नित्यत्वानित्यत्वरूपकोटिस्मरणं क्रियते । यथा विरोधिसम्बन्धः नित्येऽऽकाशादौ गन्धवत्त्वं न तिष्ठति अनित्ये च जलादौ गन्धवत्त्वं किं न तिष्ठतीति गन्धवत्त्वं किं नित्ये तिष्ठति उतानित्यते तिष्ठतीति कोटिद्वयस्मरणम्, तदनन्तरं संशयो भूनित्याऽनित्या वेति । असाधारणधर्मस्तु संशयजनककोटिद्धयस्मरणोपयोगी।
ननु संशयस्यापि निश्चयत्वमेवास्तु । तथाहि तस्यापि निश्चयविषयत्वात् । यथा यत्र वस्तुगत्या पुरुषस्तिष्ठति तत्र विशेषदर्शनाभावकालेषु पुरुषविषयकसन्देहो जायतेऽयं पुरुषो न वेति । तथा चास्मिन् ज्ञाने पुरुषः पुरुषत्वं पुरुषत्वाभावो विषयीभवतीति । ततो विशेषदर्शनानन्तरं पुरुषविषयकं निश्चयरूपं प्रत्यक्षं जातमयं पुरुष इति । पुरुषपुरुषत्वे च तत्सम्बन्धश्च भासते । इदं च संशयरूपज्ञानेऽपि भासते इति कथं निश्चयभिन्नत्वं संशयस्य विषयभेदाभावादिति चेत् न । पुरुषत्वप्रकारकत्वे सति पुरुषत्वाभावप्रकारकत्वस्य पुरुषसंशयत्वात्, अयं पुरुषो न वेत्यत्र पुरुषत्वपुरुषत्वाभावयोः प्रकारकत्वात् । निश्चये तु यद्यपि पुरुषत्वं प्रकारो भवति तथापि पुरुषत्वाभावः प्रकारो निश्चये न भवतीति । तथा च निश्चयत्वं पुरुषप्रकारकत्वे सति पुरुषत्वाभावप्रकारकमिति १. B मध्यमस्य. २. B तथा. ३. B omits न. ४. B omits च.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org