________________
२३६
तर्कतरङ्गिणी संशयस्य निश्चयाद्भेद इति दिक् । (२६) प्रयोजनम् ।
यदिच्छयेत्यर्थ इति यद्विषयकेच्छया यत्र पुरुषः[प्र]वर्तते तस्य तत्प्रयोजनम् । यथा स्वर्गेच्छया पुरुषो यागे प्रवर्तते इति यागस्य स्वर्गः प्रयोजनम' । तत् सुखाप्तिदुःखहानिरूपमेव । नान्यादिति उपलक्षणमेतदिति इदमुक्तं मुख्यं प्रयोजनम् गौणमन्यदिति । गौणमिति यथा पाकेच्छया काष्ठादौ पुरुषः प्रवर्तते । तथा च पाकरूपं गौणं प्रयोजनम् मुख्यं च पाकजन्यौदनभोजनजन्यतृप्तिजन्यं सुखं दु:खाभावो वेति । [२७] दृष्टान्तः ।
'दृष्टान्तग्रन्थमाह-वादीति ।सम्प्रतिपत्तिरपीति सम्प्रतिपत्तिः हि ज्ञानविशेषः । स च न शुद्धः । किन्तु व्याप्यव्याप्यकभाववत्तया विवक्षितः । तेन व्यतिरेकिदृष्टान्तस्य हृदादेः संग्रहो जात इति भावः।
ननु दृष्टान्तस्यावयवपदार्थान्तर्गततया पृथग्व्युत्पादनं व्यर्थमिति चेत्, ना दृष्टान्तस्यावयवभिन्नत्वेनापि पृथग्मोक्षोपयोगित्वमिति पृथग्व्युत्पादनम् । [२८] सिद्धान्तः ।
प्रामाणिकत्वे इति-प्रामाणिकत्वं प्रकारो यत्रैतादृशोऽर्थ निश्चयो यत्र स एव सिद्धान्त इत्यर्थः । यथा श्रुते प्रमेयमिति ज्ञानस्यापि सिद्धान्तत्वं स्यात् । तत्र प्रमेयत्वं प्रकारः, न च प्रामाणिकत्वमिति न तत्रातिव्यप्तिः । अयं चेति प्रामाणिकत्वप्रकारार्थनिश्चयः कथानुकूलत्वेन विशेष्यः, यथा कथानुकूलोऽयं प्रामाणिकत्वप्रकारार्थनिश्चयः सिद्धान्तः । अत एव न लौकिकालौकिकोऽभ्युपगमस्तु कथोपयोगी न भवति । तत्र प्रामाणिकार्थत्वाभावादिति भावः । लौकिकाभ्युपगमह-स चेति । (I) सर्वतन्त्रसिद्धान्तः । __ तत्र सर्वतनन्त्रसिद्धान्तं लक्षयति-वादिभ्यामिति तथा चोभाभ्यां वादिभ्यां कथायां यस्योपयोगः सः सर्वतन्त्रसिद्धान्त इत्यर्थः । यथा शब्दस्य नित्यत्वानित्यत्वविचारे शब्दरूपो ये धर्मी स चोभाभ्यामभ्युपगम्यत इति सर्वतन्त्रसिद्धान्त इति । (II) प्रतितन्त्रसिद्धान्तः ।
वादे भेदो यथा-प्रभाकरस्येति-प्रभाकरेण शब्दस्य नित्यत्वं स्वीक्रियते, तच्च नैयायिकैः
१. B प्रयोजकम्. २. B दृष्टान्तमाह. ३. B अदृष्टा.. ४. B -त्पादिता । ५. B -सिद्ध इति ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org