SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २३७ तर्कतरङ्गिणी नाङ्गीक्रियते । एवं न्यायभिमतानित्यत्वं प्रभाकरैः नाङ्गीक्रियते इति वादिनो भेदः । परं शब्दरूपो धर्मी उभाभ्यमभ्युपगम्यत इत्यर्थः । प्रमाद इति । यथा धर्मी उभयवादिसिद्धो भवति मनोरूप इति पूर्वस्मिन्नुदाहरणे एव प्राप्यते किमर्थं पृथक् द्वितीयस्योपादानमिति प्रमादः । (III-IV ) अधिकरणाभ्युपगमसिद्धान्तौ । परतन्त्र इति स्पष्टम् । अयमर्थ इति जैमिनीयेनापि प्रभाकरेणापि शब्दस्य गुणत्वमङ्गीकृतमस्ति नित्यत्वानित्यत्वे यथा तथा । अर्थान्तरमिति यदि नित्यत्वानित्यत्वविचारः प्रतिवादिना समं क्रियते तदा शब्दस्य वादिनं प्रति गुणत्वसाधनेऽर्थान्तरस्य प्रकृतानुपयोगित्वात् । यदि च प्रकृतोपयोगीति यदि च शब्दस्य गुणविचारः क्रियते तदा तस्याप्युपभोगस्तदा सर्वतन्त्रसिद्धान्त एव । गुणत्वस्य शब्दे सर्वैरङ्गीकारात् । अन्यतराभ्युपगमेति यदि शब्दस्य नित्यत्वमनित्यत्वं वाऽभ्युपगम्यते तदा प्रतितन्त्रसिद्धान्तो भवति । तथा च यदा शब्दस्य नित्यत्वमभ्युपगम्यते तदा प्रतितन्त्रं मीमांसासिद्धान्तः । यदि वाऽनित्यत्वमभ्युपगम्यते तदा प्रतितत्रं न्यायशास्त्रं प्रतितन्त्रशास्त्रम् । तथा चाभ्युपगमरूप: चतुर्थो न सम्भवतीत्यर्थः । [२९] अवयवाः । (१) अवयवलक्षणम् । अवयवान् लक्षयति-अनुमानेतीति अनुमानवाक्यस्य ये एकदेशा:-अनुमानवाक्यं पर्वतो वह्निमानित्यारभ्य वह्निव्याप्यधूमवानयमित्यन्तं महावाक्यम्-तस्य ये एकदेशाः प्रतिज्ञादयः ते एवावयवाः पर्वतो वह्निमानित्यादयः । नन्विति तथा चावयवावयवे वह्निरित्यादिके यद्यवयवादौ यथा वह्निमान् धूमादिति अवयवद्वयेऽतिव्याप्तिः । तत्राप्यनुमानरूपमहावाक्यावयवत्वमस्ति । परं वस्तुगत्या तत्रावयवत्वं नास्तीत्यतिव्याप्तिरित्याशङ्कार्थः । ___ पूर्वलक्षणे दोषसद्भावाल्लक्षणान्तरमाह न्यायजन्येति न्यायेनानुमानरूपे महावाक्येन जन्यो यो बोधो महावाक्यार्थज्ञानं पञ्चावयववाक्यार्थज्ञानानन्तरं यन्महावाक्यार्थज्ञानं तस्माद्वह्निव्यान्यधूमवानन्यमितिरूपम् तस्य यो विषयोऽन्वयः पर्वतवल्यादिसम्बन्धस्तस्य यः प्रतियोगिनिरूपकः, एतादृशं यत् खण्ड वाक्यार्थबोधकं वाक्यम्, तस्य भावस्तस्य पर्याप्त्याधारः-समाप्त्याधार:-एतादृशोऽवयवः । यावता वाक्येन खण्डवाक्यार्थस्य संपूर्णोऽन्वयो भवति । यथा पर्वतो वह्निमानित्यादिरूपोऽवयवः । एवं कृते च न्याये पञ्चावयवरूपमहावाक्येऽतिव्याप्ति भवति । कथम् ? महावाक्यस्य १. B omits कथम्. Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002581
Book TitleTarkatarangini
Original Sutra AuthorN/A
AuthorGunratna, Vasant G Parikh
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy