________________
२२६
तर्कतरङ्गिणी संयोगात्यन्ताभावोऽप्यव्याप्यवृत्तिर्न स्यात् । अत्यन्ताभावविरोधी भवति प्रतियोगी। तथा च यत्र घटत्वं तिष्ठति तत्र घटत्वात्यन्ताभावो न तिष्ठति । प्रतियोगि भवति घटत्वम्, तद्विरोधित्वाद घटत्वात्यन्ताभावस्येति सर्वप्रतियोगिना सममत्यन्ताभावस्य विरोध्येव । तथा च वृक्षे प्रतियोगिनः संयोगस्य सत्त्वेन तत्र तदत्यन्ताभावो न स्यात् ।
यद्युच्यते यदनवच्छेदेन संयोगरूपः प्रतियोगी तिष्ठति तदवच्छेदेन तदत्यन्ताभावो मा तिष्ठतु । तत्र तदवच्छेदेन विरोधिनः संयोगस्य सत्त्वाद् अन्यावच्छेदेन तु तदसत्त्वेन तदत्यन्ताभावस्तिष्ठत्येव । यथा प्रकृतेऽपि यदनवच्छेदेन प्रतियोगितावच्छेदको धर्मस्तिष्ठति तदवच्छेदेन तद्वदन्योन्याभावो समाः तिष्ठतु, परमन्यावच्छेदेन विरोधिना प्रतियोगितावच्छेदकधर्मस्यासत्त्वेन तद्वदन्योन्याभावस्तत्र स्थास्यत्वेवाबाधकादिति दिक् ।
अथ घटात्यन्ताभावात्यन्ताभावोऽपि प्रतियोग्येव । यथा घटवति भूतले घटत्यन्ताभावो नास्तीति प्रतीतेः सत्त्वात् । घटतिरिक्तो घटत्यन्ताभावाभावो न कल्प्यते । गौरवात् । क्लृप्तेनैव प्रतीतिसम्भवात् । अक्लृप्तकल्पनायां मानाभावात् । घटान्योन्याभावात्यन्ताभावस्तु प्रतियोगितावच्छेदको धर्मो घटत्वादिरेव । यथा घटे घटान्योन्याभावो नास्तीति प्रतीतेरुदयात् । अन्यथा यदीयं प्रतीतिः प्रतियोगिनैव क्रियते, यथा तदन्योन्याभावात्यन्ताभावो यदि प्रतियोग्येव तदा घटवत्यपि भूतले घटन्योन्याभावो नास्तीति प्रतीतिः स्यात् । तत्र तदन्योन्याभावात्यन्ताभावस्य घटे लक्षणस्य सत्त्वात् । यदि वा कपाले घटघटन्योन्याभावयोरुभयोः सत्त्वेन सहानवस्थानलक्षणविरोधभङ्गः स्यादिति ।
. नवीनमतेऽत्यन्ताभावाभावस्तु न प्रतियोगी किन्त्वतिरिक्त एव । यत्र प्रतियोगिनः ना[ना] भवन्ति तत्रैवातिरिक्तः । यथा घटत्यन्ताभावस्थले प्रतियोगिनः नाना भवन्ति । यथा घटात्यन्ताभावस्य घटाः भवन्ति बह्वः प्रतियोगिनः, तथा च तेषां सर्वेषां घटत्यन्ताभावाभावत्वं कल्पनीयम् । तदपेक्षया लाघवाद् घटातिरिक्तो घटत्यन्ताभावाभावो घटाधिकरणमात्रवृत्तिरन्य एव स्वीकर्तव्यः । तथा चानेके घटानां घयत्यन्ताभावो नास्तीति प्रतीतिविषयत्वम् । 'उतातिरिक्तैरेकाभावस्येति' लाघवात् । अतिरिक्त एवेति ।
यधुच्यतेऽक्लुप्तकल्पनातो भवन्मते एव गौरवम्, तदाऽभावोऽप्यतिरिक्तो न सिद्धेत् । मीमांसकैरधिकरणस्यैवाभावत्वाङ्गीकारात् । यथा मीमांसकं प्रति लाघवा[त्]तर्केण भूतलाद्यति रिक्तोऽभावः साध्यते । तथाहि यदि भूतलाादिकमेव नानाघटत्वात्यन्ताभावस्वरूपं तदा महद्गौरवमलाघवात् । भूतलादिवृत्तिरेकोऽभावोऽतिरिक्त एवेति । तथाप्यत्राप्यतिरिक्तकल्पनैव लघीयसी। यत्र पुनः प्रतियोगी भवत्येकस्तत्रात्यन्ताभावाभाव: प्रतियोग्येव । यथा घटत्वात्यन्ता१. B तत्राति.. २. B -रिक्तैकभा.. ३. B नास्ति ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org