________________
तर्कतरङ्गिणी
२२५ घटान्योन्याभावप्रतियोगी भवति घटस्तस्यावच्छेदकं भवति घटत्वम्, तस्य योऽत्यन्ताभाव: स घटे नास्ति, वर्तते च पटादौ । तत्र घयन्योन्याभावस्यापि सत्त्वात् । तथा च घटप्रतियोगिकान्योन्याभावस्य घटत्वात्यन्ताभावातिरिक्तत्वे प्रमाणं नास्ति । अतिरिक्तकल्पनायां तु गौरवम् । लाघवात् घटः पटो न भवतीति प्रतीतौ घटत्वस्य योऽत्यन्ताभावः घटे, स एव पटे घटस्यान्योन्याभावः । बाधकाभावात् अतिरिक्तपदार्थकल्पनायां गौरवम् ।
तच्चिन्त्यम् । तथा सति घटत्वज्ञानव्यतिरेकेण घटान्योन्याभावबुद्धिरेव न स्यात् । घान्योन्याभावस्य तव मते घटत्वात्यन्ताभावात् । तस्य प्रतियोगितावच्छेदकं भवति घटत्वम् । तदवच्छिन्नज्ञाने तदभावज्ञानानुदयात् । अभावज्ञानं प्रतियोगितावच्छेदकावच्छिन्न प्रतियोगिज्ञानस्य कारणत्वात् । तथा च प्रकृते प्रतियोगितावच्छेदकं घटत्वम् । तेन च रूपेण घटत्वस्याज्ञानात् । तदत्यन्ताभावबुद्धि न जायते । अन्योन्याभावः पृथगेवेति । अथवा ध्वंसत्वात्यन्ताभाववत्त्वे सति प्रतियोग्यवृत्तिनित्याभावोऽन्योन्याभावः । अयमर्थ:-योऽभावस्त्वप्रतियोगिनि न वर्ततेऽथ च योऽभावो नित्यो भवति, अथ च ध्वंसत्वानाधिकरणी भूतो भवति सोऽन्योन्याभावः "इत्यर्थः । यथा घटः पटो न भवतीत्यर्थ, पटान्योन्याभावो घटे। अयं चाभावः स्वप्रतियोगिनि घटे पटान्योन्याभावो नास्ति । अथ च तस्य नाशो नास्ति । अत एवान्योन्याभावो नित्यः । तत्रान्योन्याभावे ध्वंसत्वात्यन्ताभावोऽप्यस्ति । सत्यन्तं ध्वंसेऽतिव्याप्तिवारणार्थम् । अन्यथा प्रतियोग्यवृत्तिनित्याभावो ध्वंसोऽपि भवति । ततस्तदुपादाने नातिव्याप्तिः । यदि नित्याभावत्वमात्रम्, तदाऽत्यन्ताभावेऽतिव्याप्तिः । अत उक्तं प्रतियोग्यवृत्तीति पदम्। घटेऽपि घटाभावान्घटात्यन्ताभावोऽस्ति । नित्यपदं प्रागभावेऽतिव्याप्तिवारणार्थम् । ध्वंसत्वात्यन्ताभावस्तु प्रागभावादित्रिकेऽस्तीति । अनेन लक्षणेनान्योन्याभावो भिन्न एव । स तु व्याप्यवृत्तिरेव । अत्यन्ताभावस्तु किञ्चिदवच्छेदेनैवेति सिद्धान्तः।
शिरोमणिमतेऽन्योन्याभावोऽप्यव्याप्यवृत्तिर्यथाऽत्यन्ताभावोऽप्यव्याप्यवृत्तिः कपिसंयोगात्यन्ताभावस्थले सिद्धः । प्रतीत्या यथा मूले कपिसंयोगः शाखायां नेति । तथाऽन्योन्याभावोऽपि । यथापि मूले वृक्षः कपिसंयोगवान् शाखायां नेति प्रतीत्या शाखावच्छिने वृक्षे कपिसंयोगवदन्योन्याभावः प्रतीयते-इत्यव्याप्यवृत्तिरन्योन्याभाव इति । न च तत्र वृक्षेऽन्योन्याभावविरोधिनः प्रतियोगितावच्छेद[क]धर्मस्य तत्र सत्त्वेन कथमन्योन्याभाववृत्तिः स्याद्, यथाऽन्योन्याभावस्य विरोधी भवति प्रतियोगितावच्छेदको धर्मस्तथा च यत्रान्योन्याभावप्रतियोगितावच्छेदको धर्मो भवति घटत्वादिस्तत्र घटन्योन्याभावो न तिष्ठति, तथा च संयोगवदन्योन्याभावस्य प्रतियोगितावच्छेदको भवति संयोगस्तस्य वृक्षवृत्तित्वेन कथं वृक्ष संयोगवदन्योन्याभाव इंति वाच्यम् । तथा सति १. B कल्पनागौरवम् । २. A पृथगिति वेति ३. B भूतोऽयं भवति. ४. B om its the reading betweeen इत्यर्थः......न्योन्याभावो. तर्क.-२९
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org