________________
२२४
तर्कतरङ्गिणी शब्दप्रयोगः कृतः, तदा श्रोतुः संयोगसम्बन्धेनैवाभावप्रतीतिः कुतो न जायते ? तत्र नियामकमिदमेव वाच्यम् । तथा च येन सम्बन्धेन प्रतियोगिनोऽऽरोपः कृतः-यथा 'संयोगसम्बन्धेन घटवति भूतले घटो नास्तीति शब्दप्रयोगः । तदनन्तरं या बुद्धिर्जायते सा समवायसम्बन्धेनैव, न संयोगसम्बन्धेन । संयोगस्य विद्यमानत्वेन संयोगसम्बन्धेन प्रतियोगिनोऽऽरोपो नास्ति ।-इत्यभावस्यारोपज्ञानं प्रति कारणता संसर्गाभाव इति । (२) अन्योन्याभावः ।
अन्योन्याभावस्तु यत्र प्रतियोगितावच्छेदकमारोप्य यस्य यत्र निषेधः क्रियते, तत्र तस्याभावोऽन्योन्याभावः । तथा च घटः पटो न भवतीति । अत्र घटे प्रतियोगितावच्छेदकं पटत्वमारोप्य निषिध्यते । अतो घटे प्रतियोगिकान्योन्याभावविषयिणी प्रतीतिर्जायते । यथा वा तादात्म्यसम्बन्धेन प्रति योगिनमारोप्य यत्र यस्य निषेधः क्रियते तत्र तस्यान्योन्याभावः । यथा प्रथमत उक्तं-घट-पट इति । तादात्म्यसम्बन्धेन घटे पट आरोपितः । तदनन्तरं नत्रा घटः पट नेत्यत्र योऽभावः प्रतीयते स एवान्योन्याभावः । अथवा घटः पट इत्युक्ते प्रतियोगितावच्छेदकं यत्पटत्वं समवायसम्बन्धेन तदारोप्य यदा पटस्य निषेधः क्रियते तदा घटे पटप्रतियोगिकान्योन्याभाव एवेति । अत एव घटः घटोनेति प्रतीति न जायते । तत्र समवायसम्बन्धेन घटत्वस्य विद्यमानत्वेन तादात्म्यसम्बन्धेन घटस्य च विद्यमानत्वेनारोपाभावात् । जायते नीलघटः पीतघो नेति प्रतीतिः । तत्र नीलघटे पीतघटत्वस्य तादात्म्यसम्बन्धेन "पीतघटस्य चारोपसम्भवात् । (३) अत्यन्ताभावान्योन्याभावयो विशेषः ।
अयमर्थो निष्कृष्टः-यत्र तु नत्रस्थले यत्राधिकरणेऽनुयोगिन्याधारता सप्तमीविभक्त्या प्रतिपद्यते तत्र संसर्गाभावप्रतीतिर्जायते यथा भूतले घटो नास्तीति । अथ यत्र नञ् नास्ति, अथ च मतुप्प्रत्ययस्तिष्ठति तत्रापि संसर्गाभावप्रतीतिः सप्तमीविभक्तिव्यतिरेकेणापि जायते । यथाघटाभाववद्भूतलमिति । नत्रस्थले त्वधिकरणता सप्तमीविभक्त्यैव यत्र प्रतीयते तत्र संसर्गाभाव एव । यत्र मतुप-प्रत्ययो(ये)नाधिकरणता प्रतीयते तत्र सप्तम्या विनाऽपि संसर्गाभाव एव प्रतीयते । यत्र पुनरनुयोगिनि प्रतियोगिनि च नञ्-स्थले प्रथमा विभक्तिस्तत्रान्योन्याभाव एव । यथा घटः पटो नेति । अत्र नबर्थो भवत्यभावस्तस्य प्रतियोगी भवति पटः, तत्प्रतिपादकं पटपदम् । तत्र प्रथमा विभक्तिर्भवति । अनुयोगि भवति घटस्तत्प्रतिपादकं घटपद तत्रापि प्रथमाविभक्ते. सत्त्वाद् यद्यत्र घटे पये नेति प्रतीतिः, तदाऽत्यन्ताभाव एव प्रतीयेतेति । प्रतीतिवैलक्षण्यादभाववैलक्षण्यम् ।
वस्तुतस्तु प्रतियोगितावच्छेदकात्यन्ताभाव एव प्रतियोगिनोऽन्योन्याभावः । यथा १. B तथा. २. B पटो. ३. A adds सामान्यसम्बन्धेन after विद्यमानत्वेन. ४. B पीतस्य . ५. A omits तु.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org