________________
२२३
तर्कतरङ्गिणी नैयायिकानां मतेऽनंतत्वात् । ततः समवायोऽतिरिक्तः इति स्वरूपसम्बन्धेनैव निर्वाहात् ।
तथा च समवायिकारणत्वमपि घयदिनिष्ठाधेयताविशेषनिरुपिताधारताविशेषसम्बन्धेन यत्र घटादिरुत्पद्यते तदेव समवायिकारणं स्वरूपमेव, न त्वतिरिक्तं पदार्थान्तरम् । प्रमाणाभावात् गौरवाच्चेति ।
भवतामिति नैयायिकानामिति शेषः । तथा च भवदभिमते उदाहरणेऽस्माकं विवाद इत्यर्थः ।
इति समवायग्रन्थः ।
[२३] अर्थप्रकरणे अभावनिरूपणम् ॥ इदानीमभावनिरूपणम् । स च द्विविधमिति मूलम् । (१) संसर्गाभावः ।
संसर्गाभावस्य हीदं लक्षणम् । रेयत्र संसर्गेण संयोगादिसम्बन्धेन प्रतियोगिनामारोप्यनिषेधः क्रियते, तत्र संसर्गाभावः । यथेह भूतले घटो नास्तीत्यत्यन्ताभावः प्रतीयते । प्रथमतोऽत्र संयोगसम्बन्धेन घटस्यारोपः क्रियते-भूतले घट-इत्येतन्मात्रम् । तदनन्तरं नजाऽभावः प्रतिपाद्यते । ततोऽयमेव संसर्गाभावः।
___ एवं प्रागभावोऽपि । यथा घटोत्पत्तेः पूर्वकाले इह कपाले घटो नास्तीति । तदानीं प्रागभावविषयिणी प्रतीति र्जायते । तत्र तदत्यन्ताभावस्यासत्त्वात् । अग्रे कपाले एव घटस्योत्पाद्यमानत्वात् । तदा घटानुपपत्त्या ध्वंसविषयिणी प्रतीतिर्नजायते एव । तथा च प्रागभावादित्यत्र 'घटस्थलेऽपि प्रतियोग्यारोप्य(य) हेतुकाभावधीविषयः५ संसर्गाभाव एव । ध्वंसोऽपि कपालमालायां घटनाशानन्तरं कपाले घटो नास्तीति प्रतीतिर्जायते, सा ध्वंसविषयिण्येवेति ।
नन्वारोपो नाम यत्र यत्रास्ति तत्र तत्र]तस्य प्रसङ्गः, तस्याभावज्ञानं प्रति कारणत्वे किं प्रमाणमिति चेत्, न । भूतले घटो नास्तीत्यत्र संयोगसम्बन्धेन भूतले यदा घटज्ञानं जातं तदा तेन सम्बन्धेन तदानीं तदभावज्ञानानुदयात् । जायते च तत्रैव समवायसम्बन्धेन तदभावप्रतीतिरिति । तथा च येन सम्बन्धेन प्रतियोगी यत्रारोप्यते तेनैव सम्बन्धेन तत्राभावप्रतीति र्जायते । अन्यथा संयोगसम्बन्धेन घटवति भूतले समवायसम्बन्धतात्पर्यकेण श्रोतारं प्रति 'इह भूतले घो नास्ती'ति
१. B नैयायिकमतेनान्तत्वात् । २. It is द्वेधा in त. भा. ३. B यथा ४. B omits घट. ५. B -विषयी.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org