________________
२२२
तर्कतरङ्गिणी
क्षणे चत्वारः पाकजाः रूपादयः उत्पद्यन्ते, तत्र यदि प्रत्येकं रूपादीनां समवायो भिन्न भिन्न एव । तदा रूपादिस्वरूपसम्बन्धातिरिक्तसमवायस्य साधकं प्रमाणं नास्ति । समवायसिद्धिः स्वरूपसम्बन्धातिरिक्तस्य लाघवानुरोधेन भवति । समवायादीनां मते तु एक एव चतुर्णां सम्बन्धो बाधकाभावात्। भवन्मते तु भिन्नसम्बन्धकल्पने गौरवमेव बाधकम् । तत एक एव समवायः । एकत्र सिद्धोऽर्थोऽन्यत्रापि कल्पने गौरवमिति न्यायेन सर्वत्र समवाय एक एव कल्पनीयः । एवं घटत्व पटत्वादीनामप्येक एव समवायः ।
ननु यदि सर्वत्रैक एव समवायस्तदा शुक्तौ रजतत्वसमवायस्यापि सत्त्वातत्र जाते या रजतत्वप्रकारिका प्रतीतिः सा भ्रान्ता न स्यादिति चेत् न। तत्र तेन सम्बन्धेन रजतत्वस्यावर्तमानत्वात् । यद्यपि तत्र रजतत्वसमवायस्तिष्ठति तथापि तेन सम्बन्धेन रजतत्वं तत्र नास्ति । आकाशवत् यथा भूतलादौ आकाश सम्बन्धसत्त्वेऽपि आकाशाभावात् । तत्र च रजतत्वं कालिकसम्बन्धेन यथा यदा रजतं तदा कालः । एकज्ञानविषयत्वेन सम्ब्धेन वा यथा रजतशुक्ती इति समूहालम्बनात्मकं ज्ञानं कदापि जातमभूत्तद्विषयता उभयत्र तिष्ठति' तेन सम्बन्धेन रजतत्वं तत्र वर्तते । तथा चानेन सम्बन्धेन यदा रजतत्वप्रकारिका बुद्धिर्जायते तदा तु प्रमैव । बाधकाभावात् । तथा च यथा भूतलमाकाशवदिति प्रतीतिस्तत्संयोगे सत्यपि, तथा च रजतत्वसमवायेसत्यपि शुक्ताविदं रजतमिति बुद्धिर्भ्रान्तैव । तेन सम्बन्धेन रजतत्वस्य शुक्ताववर्तमानत्वादित्येक एव समवायः ।
वस्तुतः यदि स्वरूपसम्बन्धेन सर्वत्र निर्वाहसम्भवे समवायस्वरूपः [ तर्हि ] सम्बन्धान्तरकल्पनमयुक्तम् । यदुक्तं पाको नैकदैव रूपाद्युत्पादस्थले भिन्नः भिन्न कल्पने गौरवम् तदयुक्तम्। येन समवायः स्वरूपसम्बन्धातिरिक्तः स्वीक्रियते, तेनापि समवायवृत्त्यर्थः स्वरूपसम्बन्धोऽवश्यस्वीकर्तव्य एवेति । तथा च लाघवात् स्वरूपसम्बन्ध एव प्रथमतो वाच्य इति । अपि च शुक्तौ यद्रजतप्रकारकं ज्ञानं जायते तत्र रजतत्वसमवायस्य सत्त्वेन प्रमात्वापत्तिः । न च तेन सम्बन्धेन तत्र रजतत्वं न भवतीति वाच्यम् । रजतत्वस्य स्थलान्तरे तेनैव सम्बन्धेन वृत्तिमत्वात् । अत्रापि तत्र सम्बन्धेन वर्तते को दोषः ? आकाशदृष्टान्तस्तु न युक्तः । आकाशं तु संयोगसम्बन्धेन यदि कुत्रापि वृत्तिम [त्] तदा संयोगसम्बन्धेन भूतलादौ वृत्तिः सम्भाव्या । आकाशस्यातीन्द्रियत्वात् । अत्राकाशमिति प्रतीतेरसिद्धेः । शुक्तौ चेदं रजतमिति विशिष्टबुद्धिर्जायते । स्थलान्तरे समवायसम्बन्धेन रज[त]त्ववृत्तिमत्वे तत्रापि समवायसम्बन्धेन वृत्तिमत्त्वं रजतत्वस्य निराकर्तुमशक्यत्वादिति । तथा च स्वरूपसम्बन्धेनैव रजतत्वं शुक्तौ नास्तीति समवायादिनाऽपि वाच्यमेव । ततः स्वरूपसम्बन्धेनैव शुक्तौ रजतत्वं नास्तीति तत्प्रकारकं ज्ञानं भ्रमरूप एव । स च सम्बन्धो रजतमात्रेण समं रजतत्वस्य तिष्ठतीति फलबलैकतया कल्प्यः । स च रजतत्वनिष्ठाधेयतानिरुपिताधारतैव, संयुक्तसमवायादिवत् । सम्बन्धानां १. B omits तिष्ठति तेन. २ B रूपसम्बन्धो न सर्वत्र ३. B omits one भिन्न.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org