________________
२२१
तर्कतरङ्गिणी अन्यब्राह्मणव्यभिचारात् । उभयं च ब्राह्मणावस्थायां विश्वामित्रशरीरे तिष्ठतीति । तथा च विश्वामित्रनिष्ठान्यब्राह्मणव्यावृत्त्या भिन्नेव तिष्ठतीति चतुष्टयम् ।
जातिप्रत्यक्षे ब्राह्मणजन्यत्वे सति ब्राह्मणाजन्यत्वं व्यज्जकम्, विद्यमाने सन्निकर्षकृष्टेऽपि ब्राह्मणे ब्राह्मणत्वसन्देहात् यदोक्तं व्यज्जकं जातम्, तदा तु झटित्येव ब्राह्मणत्वनिश्चयो भवतीति ।
[इति सामान्यप्रकरणम् ।]
[२१] अर्थप्रकरणे विशेषनिरूपणम् ॥ विशेषपदार्थलक्षणे सामान्येति सामान्ये एकमात्रसमवेतत्वं नास्ति ।
इति विशेषप्रकरणम् ।
[२२] अर्थप्रकरणे समवायनिरूपणम् ॥ समवायग्रन्थे शङ्कते नन्विति परमाणुरथ च परमाणुरूपध्वंस: अनयोर्यः स्वरूपसम्बन्धविशेषः तस्यायुतसिद्धप्रतियोगिकत्वात् परमाणुरूपध्वंसौ परस्परमयुतसिद्धौ भवतः इत्यपि व्याप्तिः ।
समाधत्ते-स्वरूयेति तथा चेदं लक्षणं जातम्-अयुतसिद्ध्यो' यः स्वरूपसम्बन्धातिरिक्तो भावलक्षणः सम्बन्धः समवायमित्यर्थः । तथा च परमाणुतद्रूपध्वंसयो यः स्वरूपसम्बन्धविशेषस्तत्र तत्र स्वरूपसम्बन्धातिरिक्तत्वाभावान्नतिव्याप्तिः । भावत्वानुपादान इति यदि लक्षणे भावपदं न दीयते, तदा भूतले घटो नास्तीत्यभावेऽतिव्याप्तिः स्यात् । तत्राप्ययुतसिद्ध्योरभाव भूतलयोः स्वरूपसम्बन्धातिरिक्तत्वभावे तिष्ठतीत्यतिव्याप्तिः । ततः उक्तम्-भावत्वेति तथा च तत्र भावत्वाभावान्नातिव्याप्तिरित्यर्थः । समवायस्त्वेक एव ।
___ अत्र किञ्चिद् विचार्यते-समवायसम्बन्धस्तु स्वरूपातिरिक्त [एक]एव । लाघवात् । यत्रैकस्मिन्नैव घटे पाकेनैकस्मिन्नैव क्षणे रूपरसगन्धस्पर्शारुत्पादितास्तत्र रूपादिचतुष्टयस्य घटस्य च परस्परं स्वरूपसम्बन्धत्वं वाच्यम् । 'उत तेषामेक एव सम्बन्धो वाच्यः । लाघवात् । तदतिरिक्त एक एव रूपादिचतुष्टयप्रतियोगिकः समवाय: "सम्बन्धः सिध्यति । ननु रूपप्रतियोगिकः समवायः भिन्न एव-गन्धादीनामपि भिन्न इति चेत्, न । तदा समवायस्य सिद्धिरेव न स्यात् । यत्र क्षणे एकस्मिन्नेव १. B अन्ययो. २. B omits the reading between स्वरूप....ध्वंसयोर्य:. ३. B अत एतेषामे.. ४. B om its the reading between सम्बन्धः...समवायः.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org