________________
तर्कतरङ्गिणी
[त्]जातिरेव सेत्स्यति । यत्र चानुकूलतर्को नास्ति, तत्रानुगतप्रत्ययहेतुरूपाधिरेव । यथा घटत्वद्रव्यत्वादि र्जातिः । अत्र प्रथमतो द्रव्यमित्यनुगतप्रतीत्या द्रव्यत्वरूपं सामान्यं सिद्धम् । तत्र पुनः कार्यकारणभावरूपोऽनुकूलस्तर्कस्तिष्ठति । यथा संयोगत्वेन द्रव्यत्वेन च कार्यकारणभावः । तथा च संयोगत्वावच्छिन्नकार्यतानिरूपितसमवायिकारणतावच्छेदकत्वेन द्रव्यत्वजातिः सिध्यति । बाधकाभावात् । एवं संयोगत्वमपि द्रव्यनिष्ठकारणतानिरूपितकार्यतावच्छेदकत्वेन संयोगत्वमपि जाति: सिध्यति । न च गुणत्वादिनोपधिनैव भविष्यतीति वाच्यम् । गुणस्यैकस्याभावेन कारणतावच्छेदके गौरवात् । तथा च कारणतावच्छेदकत्वमेकस्य वा कल्पनीयमनेकस्य वा कल्पनीयम् ? लाघवादेकस्यैव द्रव्यस्य कल्पनीयम् । एवं घटत्वादिकमपि पार्थिवत्वादिव्याप्या जातिभिन्ना एव वाच्या । अन्यथा जातिसाङ्कर्यं स्यात् । तेजस्त्वेन समं यथा यत्र यत्र घटत्वं तत्र तत्र तेजस्त्वं नास्ति । यत्र यत्र पुनस्तेजस्त्वं तत्र तत्र घटत्वं नास्ति, [ यथा] सुवर्णकुण्डलादौ । उभयोः सङ्करः सुवर्णघटे । तथा च पर्थिवत्वव्याप्या' घटत्वरूपा जातिः, सा चं पार्थिवघटमात्रे तिष्ठति, न सुवर्णघटे । अथ च `तेजस्त्वव्याप्या या जातिः सुवर्णघटयदिवृत्ति, सा च पार्थिवघटे नास्ति । तथा च घटत्वस्य भिन्नभिन्नत्वे। तथा च पार्थिवत्वव्याप्या घटत्वरूपा भिन्नेति न सङ्करः । एवं दण्डत्वमपि जातिः तेजस्त्वव्याप्या भिन्ना, पार्थिवत्वव्याप्या भिन्ना । उपाधाविति यद्यनुवृत्तिप्रत्ययमात्रहेतुत्वं जातिलक्षणं तदोपाधावतिव्याप्तिः स्यादित्यर्थः । शेषं स्पष्टम् । अन्यथेति अयं घोऽयं घट इत्यनुगतप्रत्ययो जायते । न त्वगोव्यावृत्तोऽयमित्याकारः । घटेतरान्योन्याभावत्वमेव घटत्वमिति प्रतीतिर्जायते किन्तु विधिमुखेनैव प्रतीतिर्जायते इत्यर्थः ।
२२०
ब्राह्मणत्वमपि चतुष्टयम्, नैकम् । (१) एकाखण्डप्रलयानन्तरं यदाऽऽद्यब्राह्मणा उत्पद्यन्ते तेष्वदृष्टविशेषजन्यतावच्छेदिका ब्राह्मणत्वजातिस्तिष्ठति । अग्रे तत्सन्ततौ ब्राह्मणत्वावच्छिन्नकारणतानिरूपितकार्यतावच्छेदकत्वेनाद्यब्राह्मणनिष्ठब्राह्मणत्वापेक्षया भिन्नैव तिष्ठति ।
आद्यब्राह्मणेष्वदृष्टविशेषजन्यतावच्छेदिका । यतोऽदृष्टविशेषणं यच्छरीरं ब्राह्मणशरीरजनीतं तच्छरीरे या वर्तते कार्यता, तदवच्छेदिका वा याऽऽद्यब्राह्मणेषु साऽतीन्द्रिया । (२) द्वितीयस्तु कार्यकारणभावः । “ब्राह्मणत्वेन चैका कारणतावच्छेदकत्वेन, (३) अन्या च कार्यतावच्छेदकत्वेन । इदं द्वयं कारणतावच्छेदकत्वेन, (४) अन्या कार्यतावच्छेदकत्वेन च चतुर्थी । विश्वामित्रशरीरे पूर्वं क्षत्रियोऽभूत् पश्चात्ब्राह्मणः । अदृष्टविशेषात् । तथा चादृष्टविशेषजन्यतावच्छेदिका जातिर्विश्वामित्रशरीरेषु भिन्ना । आद्यैकैव । तया विश्वामित्रेन समं सङ्करः । यथा यत्र यत्र विश्वामित्रत्वं तत्र [ तत्र ] ब्राह्मणत्वं नास्ति । क्षत्रियशरीरे व्यभिचारात् । यत्र यत्र ब्राह्मणत्वं तत्र तत्र विश्वामित्रत्वं नास्ति । १. B पार्थिवत्वरूपा. २. Bomits च. ३. B -च्छेदकब्रा. ४ B -जनीतं तज्जनीतं तच्छ. ५. A repeats ब्राह्मणत्वेन.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org