________________
तर्कतरङ्गिणी
२१९ ध्वंसाधिकरणे क्षणे उत्पद्यते यो भावपदार्थस्तस्यापेक्षा न क्रियते । यथा घटे प्रथमतो नोदनाभिद्याताख्यसंयोगेन कर्मोत्पद्यते । तदनन्तरं पूर्वदेशेन समं विभागो जायते । स एव काल: कर्माधिकरणीभूतो यः क्षणस्तस्य ध्वंसः, तस्याधिकरणीभूतो तृतीयक्षणः । तत्रोत्पद्यते यो भावपदार्थो द्रव्यादिः, तदनपेक्षत्वम् ।
तथा च यद्यपि तृतीयक्षणे पूर्वसंयोगनाश उत्पद्यते तथापि सः न भावपदार्थः । पूर्वदेशविभागस्यापि यद्यप्यपेक्षा क्रियते कर्मणा तथापि स्वाधिकरणकालध्वंसाधिकरणे क्षणोत्पत्तिको विभागो न भवति । विभागस्य स्वाधिकरणकालध्वंसानधिकरणे द्वितीये क्षणे उत्पद्यमानत्वात् । सत्यन्तं च संयोगविभागयोरतिव्याप्तिवारणार्थम् । यथा घटे प्रथमतो नोदनाख्योऽभिघाताख्यो वा संयोगविशेष उत्पद्यते, तेन च कर्मोत्पद्यते, तदनन्तरं पूर्वदेशविभागः, तदनन्तरं पूर्वसंयोगनाशस्तदनन्तरं संयोग इति।
____ अत्र स्वशब्देन संयोगः । तस्याधिकरणीभूतो यः कालः, द्वितीयक्षणरूपस्तस्य ध्वंसाधिकरणीभूतो यस्तृतीयक्षणस्तत्रोत्पद्यते [सं]योगविभागरूपो भावपदार्थस्तस्यापेक्षा संयोगेन संयोगजसंयोगेन जननीये क्रियते । परं तदनपेक्षत्वं नास्तीति कर्मलक्षणं तत्र न गतम् । अत्र कालपदं कालिकसम्बन्धेन स्वाधिकरणतालाभाय । अन्यथा विषयतासम्बन्धेन स्वविषयकज्ञानस्यापि स्वाधिकरणत्वात् तद्ध्वंसाधिकरणीभूतो यः क्षणस्तदुत्पत्तिकं यद्रव्यं तदपेक्षत्वात् सर्वकर्मणामित्यसम्भवः । तद्वारणार्थं कालपदम् ।
कर्मणोऽपि कर्माधिकरणक्षणोत्पत्तिकत्वाद् सम्भवति ध्वंसाधिकरणेति पदम् । क्षणपदं चाव्याप्तिवारणाय । अव्याप्तिस्तु स्वाधिकरणकालध्वंसाधिकरणमहाकालोत्पत्तिकद्रव्यसापेक्षत्वात् । तादृशक्षणवर्तिद्रव्यापेक्षणाद् व्याप्तिरेव दोष इत्यत उक्तमुत्पत्तीति । तादृशपूर्वसंयोगध्वंससापेक्षत्वात् भावेति पदम् । तथा च कर्मणा येन पदार्थेन संयोगे विभागे च जननीये तृतीयक्षणोत्पत्तिकभावपदार्थस्यापेक्षा न क्रियते, स एव कर्मेति प्रमाणकथनम् ।
[इति कर्मप्रकरणं समाप्तम्]
[२०] अर्थप्रकरणे सामान्यनिरूपणम् ॥ एतदिति । यदि जाति न स्यात्तदाऽनुगताकारा 'प्रतीतिरेव न स्यात् । तथा च घटत्वादि सामान्यम्, अनुगतप्रत्ययविषयत्वात् । व्यतिरेकिपटदिवदिति । ततोऽनेनानुमानेन सामान्यतः कस्यापि पदार्थस्य सिद्धिर्जायते । “यत्र च कार्यकारणभावादिरूपोऽनुकूलतर्कस्तिष्ठति, तत्र तु लाघवा १. B क्षणदण्डादिस्तस्य. २. B omits प्रतीतिरेव. ३. B -र्जाता. ४. B तत्र.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org