________________
२१८
तर्कतरङ्गिणी कारणान्तर विशेषणज्ञानादिमत्त्वादित्ययं रूपाभिन्न इति ज्ञानं भविष्यत्येव । वस्तुगत्या रूपत्वाभाववति' घटे रूपत्वप्रकारकज्ञानस्य जायमानत्वादियमेवान्यथाख्यातिः । यत्र च प्रभाकरेण ज्ञानद्वयं स्वीक्रियते-रजतस्य स्मरणं शुक्तश्चेदंतत्त्वेन रूपेणानुभव इति ग्रहणस्मरणात्मकं ज्ञानद्वयमिति गौरवम्। लाघवादेकमेव स्वीकार्यम् । तेन समं रजतेन सह सन्निकर्षो ज्ञानमेवेत्युक्तम् [इत्यन्यथाख्यातिः ।]
स्पर्शवानिति-स्थितिस्थापकस्तु स्पर्शवान्यकश्चित् मूर्तद्रव्यविशेषस्तत्र वर्तते इत्यर्थः । 'अनन्त इति नियमेन सर्वशरीरेषु स्थितिस्थापकसत्त्वादित्यर्थः ।
'इति श्री गोवर्धनटिप्पणे गुणप्रकरणं सम्पूर्णम् ॥
[१९] अर्थप्रकरणे कर्मनिरूपणम् ॥ कर्मत्वेति अन्यथा चलनशब्देन यदि गमनं तदा कर्मलक्षणमिदं सर्वकर्मस्वव्याप्तम् । अत आह कर्मत्वाक्रान्तमित्यर्थः ।
७भाष्यकारेण तु लक्षणमिदं कृतम् संयोगविभागयोरनपेक्षकारणं कर्म । यदि संयोगकारणं कर्म [इ]त्युच्यते तदा संयोगेऽतिव्याप्तिः । तेनापि संयोगजसंयोगजननात् । अत उच्यते विभागेति । यदि विभागमात्रं कारणमुच्यते तदा विभागेऽतिव्याप्तिः । अत उक्तं संयोगेति । तता चोभयकारणं कर्मैव। अनपेक्षपदं द्रव्येऽतिव्याप्तिवारणार्थम्, द्रव्यस्यापि संयोगविभागकारणत्वात् । अत उक्तमनपेक्षेति। तथा च द्रव्येण यदा संयोगविभागौ जन्येते तदा कर्मसंयोगापक्षयैव जन्येते इत्यर्थः ।
ननु कर्मणा यदा संयोगो जन्यते तदाऽन्यापेक्षयैव क्रियते । यथा प्रथमतो घटादौ कर्म उत्पद्यते। तदव्यवहितोत्तरक्षण एव संयोगो नोत्पद्यते । किन्तु विभागपूर्वसंयोगध्वंसद्वारा एवोत्तरदेशसंयोगे जननीये विभागपूर्वसंयोगध्वंसयोरपेक्षा क्रियते इत्यसम्भव इति चेत्, न ।
अनपेक्षत्वं नाम स्वाधिकरणकालध्वंसाधिकरणक्षणोत्पत्तिकभावानपेक्षत्वे सति संयोगविभागयोः कारणं कर्मेति लक्षणम् । अस्यार्थो यथा स्वपदेन लक्ष्यत्वेनाभिमतं कर्म ग्राह्यम् । तदधिकरणं यो कालस्तद्ध्वंसाधिकरणीभूतो यः 'क्षणस्तत्रोत्पतिर्यस्य भावस्य तदनपेक्षत्वे सति संयोगविभागकारणत्वम् । ततः च यदा कर्मणा संयोगविभागौ जन्येते तदा कर्माधिकरणकाल
१. B विशेषज्ञान.. २. B त्वभाव इति. ३. B शुक्तौ चेदं. ४. B -नुभवति ग्रह. ५. It is अन्तत in त. भा. प्र. ६. B इति गुणप्रकरणं समाप्तम् । ७. It should be सूत्रकारेण because in वै.स. १.१.१७ it is -एक द्रव्यमगणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् । It seems that गुणरत्न has citied this लक्षण from memory as it is incomplete and slightly changed. ८. B -त्पत्तिकभावानपेक्ष्य तटनपेक्षत्वे.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org