________________
तर्कतरङ्गिणी
२१७
गोज्ञाने गवयस्य स्मृति र्भवति । तत्र सादृश्यज्ञानं संस्कारोद्बोधकमदृष्टस्य । यथा बालस्य स्तनपानादावदृष्टसाधनता स्मरणम् । चिन्ता चाधीतवेदार्थानुध्यानरूपा विस्मृतार्थ हेतुः । आदिशब्दादीश्वरेच्छादयः ।
( C ) अन्यथाख्यातिः ।
स्मृतिरप्रमैव । तस्यां स्मृतिव्यतिरिक्तत्वाभावात् । तथा च ज्ञानं द्विविधं भवतिप्रमारूपमप्रमा[रूपं]चेति । 'अप्रमा चान्यथाख्यातिः । यथा शुक्तौ रजतज्ञानम् ।
नन्वन्यथाख्यातौ च प्रमाणं नास्ति । विपर्ययज्ञानकारणाभावात् । तथाहि शुक्तौ तादात्म्यसम्बन्धेन रजतस्य भानं जायते । तदात्मना स्वरूपसमवायसम्बन्धेन रजतत्वस्य ज्ञानं जायते तन्न सम्भवति । रजतत्वाभ्यां समं सन्निकर्षाभावात् । तदात्मन स्वरूपसमवायसम्बन्धेन रजतत्वस्य ज्ञानं जायते । प्रत्यक्षज्ञाने 'चासन्निकृष्टं च किमपि न भासते । अन्यथाऽतिप्रसङ्गः स्यात् । विशिष्टज्ञानसामग्रीपूर्वं विशेष्यमिन्द्रियसन्निकर्षः, तदनन्तरं विशेषणज्ञानम्, तदनन्तरं विशेषणस्य विशेषणसममसंसर्गाग्रहस्ततो विशिष्टबुद्धिरिति । अत्र तु विशेष्येन्द्रियसन्निकर्षाभावाद्विशिष्टज्ञानं न सम्भवति । सामग्रीमध्येऽसंसर्गाग्रहोऽवश्यं वाच्य एव । अन्यथा यदा च विशेषणज्ञानं वर्तते [तदा] विशेषेन्द्रियसन्निकर्षोऽपि स्थलान्तरे वर्तते । अथ च तस्य विशेषस्य घटादेः सम्बन्धाभावग्रहो `जात:, यथाऽत्र घटो नास्तीतिरूपः, तत्र घटोऽयमिति विशिष्टबुद्धिर्न जायते । असंसर्गाग्रहस्य प्रतिबन्धकत्वात् । ततोऽसंसर्गाग्रहोऽप्यवश्यमपेक्ष्यते इति नान्यथाख्यातिरिति चेत्, न ।
यत्र चैकत्र भूतले रजतशुक्ती तिष्ठतः, तत्र रजतशुक्तीभ्यामुभाभ्यां 'सन्निकर्षसत्त्वात् रजतत्वज्ञानं यत्र विद्यते, तदनन्तरं शुक्तौ रजतत्वस्य रजतस्यवाऽसंसर्गाग्रहो वर्तते यत्र रजतसम्बन्धाभावज्ञानं न जातं तत्र शुक्तौ 'इदं रजतमिति बुद्धिर्भवत्येव । विशिष्टज्ञानसामग्रीसत्त्वात् । तथा च शुक्तौ अवर्तमानं रजतत्वं समवायसम्बन्धेन भासते, तादात्म्यसम्बन्धेन वाऽयमेव भ्रमः । सामग्रीसत्त्वे विशिष्टज्ञानरूपं कार्यं न भवतीति ब्रह्मणापि वक्तुमशक्यम् । न च यत्र शुक्तिरेवास्ति रजतेन समं सन्निकर्षो नास्ति तत्र कथं विशिष्टबुद्धिरिति वाच्यम् । तत्र माऽभूत् । परमन्यथाख्यातिः पूर्वोक्तस्थलविशेषे सिद्धाऽत अत्रापि कल्प्यते । न चात्र सन्निकर्षाभावात् कथं विशिष्टबुद्धिरिति वाच्यम् । तत्र ज्ञानलक्षणाऽलौकिकी प्रत्यासत्तिरेव सन्निकर्ष इति शिरोमणयः ।
वस्तुतस्तु अयं घट इत्यत्रैवान्यथाख्यातिः सिध्यति । यदा घटे रूपत्वस्यासंसर्गाग्रहो वर्तते, रूपस्य वा, यथा घटरूपं घटभिन्नमिति ज्ञानं न जातम्, तदा प्रतिबन्धकाभावसत्त्वात् १. B वेति । २. B चासंस्कृष्टं. ३. B जायते. ४. B सन्निकर्षभावात् न तत्त्वज्ञानं विद्यते ५. Bomits the reading between रजतमिति....शुक्तौ ६ B प्रतिबन्धकं भावसत्त्वात्.
तर्क. - २८
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org