________________
२१६
तर्कतरङ्गिणी अन्त्यशब्दनाशाव्यवहितपूर्वक्षणेऽसन्-अविद्यमानत्वात्-इति साध्यम्। हेतुमाह द्वितीयक्षणेति । द्विक्षणमात्रावस्थायी भवत्युपान्त्यशब्दः । तत्र तदधिको यश्चतुर्थक्षणे जायमानत्वादित्यर्थः । सत्यन्तं च व्यभिचारवारणार्थम् । घटादौ हेतुरस्ति, साध्यं नास्तीति । तद्वारणाय सत्यन्तम् । तथा चानेनानुमानेन पूर्वोक्तहेतुः । तदव्यवहितपूर्वक्षणेऽसिद्धरूपो हेतुः सिद्धः कृत इति । तदनन्तरं तेन हेतुनोपान्त्यशब्देऽन्त्यशब्दनाशजनकत्वाभावः साधनीय इति । तस्मादुपान्त्यशब्दनाशेनैवान्त्यशब्दनाशो जन्यते इति सिद्धान्तः । अलौकिकेति तथा चात्मनि योगजधर्मलक्षणाप्रत्यासत्त्या प्रत्यक्षत्वं वर्तते, इत्यात्मनि व्यभिचारवारणायास्मदादीति । संपातायातमिति । कस्यचिदित्येतस्य पदार्थस्य प्राप्तिरर्थादेव भविष्यति । अन्यथा परमाणुषु प्रत्यक्षत्वं यदा सिध्यति तदा कस्यचिदित्येव ग्रहणम् । स्पष्टार्थंसामान्येति - सर्वेषां परमाणवः सामान्यलक्षणप्रत्यासत्त्या द्रव्यत्वरूपया । अथवा ज्ञानमनुमित्यादि ज्ञानसन्निकर्षेणास्मदादीनामपि अप्रत्यक्षा सन्त्येवेति । तदन्यत्वं प्रत्यक्षविशेषणं वाच्यम् । ताभ्यां ज्ञानलक्षणसाध्यसामान्यलक्षणाभ्यामर्थान्तराता सिद्धसाधनमित्यर्थः । (१५) बुद्धिः ।
बुद्धिमाह अर्थेति-अर्थविषयकत्वमित्यर्थः । इदमिच्छायामतिव्याप्तम् । यदि तद्वारणायार्थ विषयकत्वं बुद्धित्वं विशेषणम्, तदा लाघवात् बुद्धित्वमेव बुद्धेर्लक्षणं वाच्यमित्येवं मनसि कृत्वाऽऽह बुद्धित्वमिति । (१६-१७) धर्माधौं ।
आद्यमिति ज्ञानादीति । योगिना तत्त्वज्ञानानन्तरं भोगार्थ कार्यव्यूहो यदा क्रियते तदा तत्त्वज्ञानेनैव यावन्त्येव शरीराणि जन्यन्ते इत्यर्थः । ननु धर्माधर्मावतीन्द्रियौ, शरीरजनकत्वेन किमर्थं स्वीकर्तव्यौ, भावनयैव शरीरोत्पत्तिर्भविष्यतीत्यत आह-भावनयेति-स्मृतिजन्यसंस्कारविशेषस्येत्यर्थः । स च स्मृत्यन्यथानुपपत्त्याऽऽत्मनि कल्प्यते । तेन च स्मृतिमात्रमेव जननीयमिति शरीरजनकत्वं कल्प्यते । न प्रमाणाभाव इत्यर्थः । एकत्वेति तथा चात्मैकत्वादिना सामान्यगुणेन सिद्धसाधनता स्यात्, तद्वरणाय विशेषपदम् । अस्मदादिपदं चेश्वरज्ञानमादाय सिद्धसाधनतावरणाय । (१८) संस्कारः ।
सदृशादृष्टेति - एते स्मृतिबीजस्य संस्कारस्योद्बोधकाः एतान्हि प्राप्य संस्कारः स्मृति जनयति । तानाह सदृशेति सदृशं सादृश्यपदार्थः । अदृष्टं धर्माधर्मों चिन्ताधीतवेदार्थस्य विशेषस्मृतिः चिन्तया भवति । तत्र "स्मृतिबीजस्य चिन्ता संस्कारोबोधिका । सादृश्यज्ञानानन्तरं गोसदृशो गवय इति १. B सिद्धम् । २. B -ऽसत्त्वरूपो ३. B omits यदा. ४. B omits अपि, ५. B अप्रत्यक्षाः. ६. B -वेदस्य. ७. B omits स्मृतिबीजस्य.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org