________________
तर्कतरङ्गिणी
२१५ तस्य क्षणिकत्वम् । न चेष्टापत्तिः । अपसिद्धान्तात् । तथा च सुन्दोपसुन्दन्यायो न युक्तः ।
तस्मादिति मूलम्-उपान्त्यशब्दस्य यो नाशस्तेन तस्य नाशः क्रियते । तेनान्त्यस्योपान्तशब्दोत्पत्त्यपेक्षया चतुर्थक्षणेऽन्त्यस्य नाशः तृतीयक्षणे उपान्त्यशब्दस्य नाश उत्पद्यते । तदानीमन्त्यशब्दस्य नाशो न जन्यते । कारणाभावात् । पूर्ववर्तिन एव कारणत्वात् । प्रथमक्षणे उपान्त्यस्यान्त्यशब्दस्योत्पत्तिः । द्वितीयक्षणे उपान्त्यस्य स्थितिः । तृतीयक्षणे उपान्त्यशब्दस्य नाशः। चतुर्थक्षणे चान्त्यनाशः । तथा च चतुर्थक्षणाव्यवहितपूर्वक्षणे उपान्त्यस्याविद्यमानत्वादुपान्त्यस्यान्त्यशब्दनाशं प्राप्ति कारणत्वं न सम्भवतीत्यर्थः ।
एतदेवाह-अन्वयस्त्विति'-उपान्त्यशब्दोत्पत्त्यपेक्षया द्वितीयक्षणेऽन्त्यशब्दोत्पत्ति:२ । तदपेक्षया तृतीयक्षणावस्थायित्वमन्त्यस्य । 'तदान्त्यशब्दोत्पत्तिक्षणापेक्षया द्वितीयक्षणानुगामित्वमुपान्त्यस्यास्ति । तृतीयक्षणेऽन्त्यशब्दोत्पत्तिक्षणापेक्षया तृतीयक्षणेऽवर्तमानेनान्त्यशब्देन कथमन्त्यस्य नाशो जननीयः ? तस्मादुपान्त्यनाशादेवान्त्यनाश इति सुस्थम् । अनुमानमुक्तार्थमेव । व्यतिरेक्यनुमानमन्वयि वा प्रथमशब्दो वा दृष्टान्तः । हेतौ तच्छब्देनोपान्त्यशब्दो ग्राह्यः । तथा चान्त्यस्य शब्दनाशव्यवहितपूर्वक्षणेउपान्त्यस्य व्यवहितपूर्वक्षणे उपान्त्यस्य शब्दत्वादित्यर्थः ।
हेतावसिद्धमनुमानेन निराकरोति-तत्रेति केनापि प्रतिवादिना वाच्यम् । तदानीमन्त्यशब्दनाशापेक्षयाऽव्यवहितपूर्वक्षणे उपान्त्यस्य, शब्दस्तिष्ठत्येवेति स्वरूपासिद्धिरिति वक्तव्या । तन्निराकरणं स्पष्टयति । तथा च तत्रेत्यस्य व्याख्यातम् । अन्त्यनाशाव्यवहितपूर्वक्षणे उपान्त्यशब्दोऽसन्निति साध्यम् । उपान्त्यः शब्दः इति पक्षः । हेतुमाह त्रिक्षणेति यथोपान्त्यशब्दस्त्रिक्षणावस्थायी भवति, तदवधिकोऽन्त्यशब्दनाशावधिकं पञ्चमे क्षणे उपान्त्यशब्दस्योत्पत्तेर्जायमानत्वात् । तथा चान्त्यशब्दनाशापेक्षया प्राक् पञ्चमे क्षणे यधुपान्त्यस्योत्पत्तिस्तदोपान्त्यस्य तृतीयत्रिक्षणावस्थायित्वतृत्तीयक्षणे तस्य नाशो भविष्यति । ततः पञ्चमे क्षणेऽन्त्यशब्दनाशः । तेनान्त्यशब्दनाशापेक्षयाऽव्यवहितपूर्वक्षणे-चतुर्थक्षणे उपान्त्यस्यासत्त्वमेव ।
तथा च हेतुरनुमानेन सिद्धः कृतः । तदनन्तरं पूर्वोक्तानुमानेनोपान्त्यशब्दस्यान्त्यनाशजनकत्वाभावः साधितः । ननु भवतोक्तम्-अन्त्यशब्दनाशक्षणापेक्षया पञ्चमक्षणे उपान्त्यशब्दस्योत्पत्तिः, तच्च न सम्भवति । यथा प्रथमक्षणे उपान्त्यस्योत्पत्तिः, द्वितीयक्षणे उपान्त्यस्य स्थितिरन्त्यस्य चोत्पत्तिः, तृतीयक्षणे उपान्त्यस्य नाशोऽन्त्यस्य च स्थितिः, चतुर्थक्षणेऽन्त्यनाशः । तथा चान्त्यनाशक्षणापेक्षया प्राक् पञ्चमक्षणे उपान्त्यशब्दस्य जायमानत्वं यो हेतुः 'उक्तः, स च स्वरूपासिद्धौ वृत्तः इति । अत आह-द्वितीयक्षणेति तथा चोपान्त्यशब्दस्तत्रासन् । कोऽर्थः ? १. B अन्वयस्थितिः. २. B -शब्दस्योत्पत्तिः. ३. B तदन्त्य. ४. B शब्दसाध्यम् । ५. B कृत. ६. B द्विक्षणेति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org