________________
२१४
तर्कतरङ्गिणी भिन्नमेव ज्ञानं तदिति ।
तत्समाधीयते-व्यभिचारादेवानेकात्मसु एकविषयकमेकं ज्ञानं न स्वीक्रियते । तथाहि ज्ञानस्थले कार्यकारणभावस्तु विशेषत एव ग्राह्यः । अन्यथा चैत्रीयात्ममनः संयोगे विद्यमाने मैत्रीयात्मनि ज्ञानं' स्यात् । न चैवम् । तस्मात् चैत्रीयात्ममनः संयोगत्वेन चैत्रीयज्ञानत्वेन च कार्याकरणभाव एव । तथा च यात्रात्मनि चैत्रीयात्ममनः संयोगस्तिष्ठति तत्रैव चैत्रीयज्ञानं तिष्ठति । यदि चैत्रीयात्ममैत्रीयात्मनोरेकमेव ज्ञानमुत्पद्यते तदा मैत्रीयज्ञानमेव चैत्रीयात्मज्ञानं जातम् । 'तथा च व्यभिचारः । चैत्रीयात्ममनः संयोगव्यतिरिक्तस्थलेऽपि मैत्रीयात्मनि ज्ञानोत्पत्तेः भिन्नमेव ज्ञानं स्वीकर्तव्यम् ।
अयमाशय इति द्वयोरपि "उपान्त्यान्त्यशब्दयोः क्षणमात्रावस्थायित्वम्, तच्च वक्तव्यम् । तथा च यदा कर्मवदिति दृष्टान्तो दीयते तदा क्षणत्रयावस्थायित्वम् । यदा च ज्ञानवदित्युच्यते तदा द्विक्षणावस्थायित्वं शब्दस्य । तथा चोपन्त्यशब्दोऽन्त्यशब्दस्य नाशको भवतीत्युक्तं मूलकारण; न सम्भवतीत्युच्यते टीकाकृता । तथाहि प्रथम उपान्त्यशब्दस्योत्पत्ति पूर्वन्यायेन जाता । द्वितीयक्षणे उपान्त्यशब्दस्य स्थितिः । तृतीयक्षणेऽन्त्यशब्दस्योत्पत्तिः । तस्मिन्नेव क्षणे उपान्त्यशब्दस्य नाशः । पुनरूपान्त्यक्षणापेक्षया चतुर्थक्षणेऽन्त्यस्य स्थितिः । पञ्चमक्षणेऽन्त्यशब्दस्य नाशः । तदानीमुपान्त्यशब्दस्याभावात् कथमन्त्यशब्दनाशकत्वम् ? 'उपान्त्यशब्दस्य यदि च पूर्ववर्तित्व मात्रेणैवान्त्यशब्दनाशकत्वमुच्यते, तदा प्रथमादिशब्दानामपि तन्नाशकत्वं स्यात् । इदमितिउपान्त्यशब्दोत्पत्त्यपेक्षया पञ्चमे क्षणे इत्यन्तशब्दस्य नाशो भवतीतीदं पदस्यार्थः । क्षणद्वयावस्थायित्वपक्षे इति । प्रथमतः प्रथमे क्षणे उपान्त्यशब्दस्योत्पत्तिः, द्वितीयक्षणे उपान्त्यशब्दस्य स्थितिः, तृतीयक्षणे उपान्त्यशब्दस्य नाशोऽन्त्यस्य स्थितिः, चतुर्थक्षणे चान्त्यनाशः । तथा च चतुर्थक्षणे उपान्त्यस्याव्यवहितपूर्ववर्तित्वाभावात् कथमुपान्त्यस्यान्त्यशब्दनाशकत्वमिति; न सम्भवतीति दूषितम् ।
न चेति -यदि सुन्दोपसुन्दन्यायेनान्त्योपान्तययो शस्तदाऽन्त्यशब्दस्य क्षणिकत्वापत्तिः । यथोपान्तस्योत्पत्तिक्षणः प्रथमः, द्वितीय क्षणे उपान्त्यस्य स्थितिक्षणः, तृतीयेनोपान्त्यनाशोऽन्त्यशब्देन क्रियते । यदुपान्त्येनान्त्यनाशः क्रियते । अन्त्यशब्दनाशं प्रत्युपान्त्यशब्दः कारणं भवति । उपान्त्यिस्थितिक्षणेऽन्त्यस्योत्पत्तिक्षणः । स एवान्त्यशब्द उपान्त्यस्य नाशकः । तथा च नाशके विद्यमाने तृतीयक्षणे उपान्त्यनाशः । तृतीयक्षणे एवान्त्यशब्दस्य नाशः । तत्रोपान्त्यशब्दस्य तदव्यवहितपूर्वक्षणे विद्यमानत्वात् । तथा च तृतीयक्षणे एवान्त्यस्यापि नाशत्वात् । तस्य क्षीणत्वात् १. B विद्यमानं स्यात्. । २. B जातमिति । ३. B अयमाशयति. ४. B उपान्तशब्द.. ५. B उपान्तशब्दस्य. ६. A omits क्षीणत्वात्
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org