________________
तर्कतरङ्गिणी
२१३ प्रमाणमिति चेत्, कार्यकारणभाव एव । ज्ञाननाशत्वेन कार्यता, ज्ञानोत्तरात्मादृष्टान्योत्पन्नपदार्थत्वेन कारणता । यदाऽऽत्ममनः संयोगेन प्रथमं ज्ञानमुत्पादितं तदा तदनन्तरमेवात्मादिकारणसत्त्वात् ज्ञानान्तरमिच्छा चोत्पत्स्यति, तदा प्रथमं ज्ञानं ते[न]नाश्यते । तथा च प्रथमज्ञानं प्रथमक्षणे उत्पन्नम् । द्वितीयक्षणे च प्रथमज्ञानस्य स्थितिः तदैवैतन्नाशकस्योत्पत्तिः । तृतीयक्षणे प्रथमज्ञाननाशकत्वेन प्रथमज्ञानस्य नाशो जन्यते । ततो द्विक्षणावस्थायित्वम् । न च प्रथमज्ञानस्योपिस्थितिरेवाङ्गीक्रियते इति वाच्यम् । तदा द्वितीयज्ञानादीनामुत्पत्तिरेव वक्तुमशक्येति तात्पर्यन्तम् । तस्यैवानवस्थायित्वात् । तथा च ज्ञानस्य नित्यत्वमेव स्यात् । ज्ञानं च नित्यं न भवति । ज्ञानं नष्टमिति प्रतीतेः । तथा च प्रथमज्ञानस्य तात्पर्यन्तमवस्थायित्वे तस्य नाशकं किञ्चिद्वाच्यमेव । तत्समानाधिकरणधर्मस्यैव तदुतरोत्पन्नात्म-विशेषगुणत्वेनैव नाशकता वाच्या इति द्विक्षणावस्थायित्वमेव ज्ञानस्य ।
न तु कर्मसाम्यमिति कर्मणः क्षणचतुष्ट्यावस्थायित्वम् । यथा प्रथमं नोदनाभिघाताख्यसंयोगात् घटादौ कर्म उत्पद्यते । तदनन्तरं पूर्वदेशेन समं घटादीनां विभागो द्वितीयक्षणे जायते । तदनन्तरं तृतीयक्षणे पूर्वदेशेन समं यो घटसंयोगस्तस्य नाशो जायते । चतुर्थक्षणे घटस्योत्तरदेशसंयोगो जायते । न च तृतीयक्षणे एवोत्तरदेशसंयोगः कथं न जायते इति वाच्यम् । तदानीं पूर्वदेशघटसंयोगस्य प्रतिबन्धकस्य विद्यमानत्वात् उत्तरसंयोगं प्रति पूर्वसंयोगप्रतिबन्धको भवतीति तत्सत्त्वे तदनुदयात् । तदनन्तरं पञ्चमे क्षणे कर्मनाशः । इति कर्मणः क्षणचतुष्टयावस्थायित्वम् ।
अत्र प्रसङ्गात् ज्ञानं विचार्यते । नन्वेकस्मिन्नेव घटे दशपुरुषाणां घटविषयकमेव ज्ञानं जातम्, तत्सर्वेषामेकमेव ज्ञानं स्वीकर्तव्यं लाघवादिति चेत्:-अत्र नवीना आहुः-समवायिकारणभेदेन कार्यभेदाङ्गीकारात्-यथा तन्त्वादिभेदेन पटादीनां भेदो जायते तथाऽत्राप्यात्मभेदात् ज्ञानभेद इति । तदपि न सम्भवति । समवायिकारणभेदेऽपि कार्याभेदात् । 'यथा द्वित्त्वोत्पत्तिस्थले घटपटयदिनिष्ठं यत् द्वित्वम्, तत्प्रति घटपटौ समवायिकारणम् । अनयोः परस्परं भेदेऽपि द्वित्वसङ्ख्याया अभेदात् । न चासमवायिकारणभेदेनैव कार्यभेदः, प्रकृते चासमवायिकारणमात्मसंयोगस्तस्य चैत्रीयाद्यात्मसंयोगापेक्षया भिन्नत्वात्, ततो ज्ञानमपि भिन्नं भवतीति वाच्यम् । द्वित्वस्थले एवासमवायिकारणभेदेऽपि द्वित्वभेदाभावात् । यथा घटपटौ द्वावित्यत्रासमवायिकारणं भवति घटैकत्वम्, पटैकत्वं च भिन्नमस्ति। तत्र परं कार्यरूपद्वित्वे भेदो नास्ति ।
__न च ज्ञानस्यानेकव्यक्तिवृत्तित्वं द्वित्ववद् स्यादिति वाच्यम् । व्यासज्यवृत्तित्वेऽनेकव्यक्तिवृत्तित्वं नियामकं न भवति । तथा च सति भवन्मते घटत्वस्यापि व्यासज्यवृत्तित्वं स्यात् । ततो बाधकाभावादनेकात्मसु एकविषयकमेकं ज्ञानमेकमेवेति नवीनाः । जीर्णानां सर्वेषां मते १. A -करणस्यैव. २. B तथा. ३. B द्रव्यवद्.
__Jain Education International 2010-05
For Private & Personal Use Only
www.jainelibrary.org