________________
२१२
तर्कतरङ्गिणी इयं प्रक्रिया प्रथमशब्दोत्पत्तौ । द्वितीयादिशब्दोत्पत्तौ तु प्रथमशब्दो द्वितीयशब्दे निमित्तकारणम्, वाय्वाकाशसंयोगस्त्वसमवायिकारणम्, आकाशं समवायिकारणम् । एवं द्वितीयेन तृतीयो जन्यते । एवं वायुनाऽऽकाशेन सह शब्दोत्पादे' कर्णदेशे यो शब्दः उत्पन्नः स एव श्रूयते ।
__ अन्त्य इति प्रथमशब्दस्यातीन्द्रियत्वात् न श्रोत्रग्राह्यत्वम् । अन्त्यः श्रोत्रप्राप्तः शब्दः श्रूयते, न तु मध्यमाः न च (नु) यदि भेरी शब्दः प्रथमोत्पन्नो यो न श्रूयते तदा भेाँ शब्द इति प्रतीति र्न स्यादिति चेत्, न । तस्य भ्रान्त्वत्वात् ।।
ननु शब्दस्य समवायिकारणं भेर्येव कुतो न भवति, किमर्थमतीन्द्रियपदार्थान्तरकल्पना, तथाहि येनाकाशस्य शब्दं प्रति समवायिकारणत्वं स्वीक्रियते तेनापि भेर्यादीनां निमित्तकारणत्वं स्वीक्रियते एव। तथा च भेर्यादीनां शब्दकारणत्वमुभयसिद्धम् समवायित्वमात्रं परमधिकं कल्प्यते । भवता च एको धर्मी आकाशलक्षणः कल्पनीयः पुनस्तस्य कारणत्वं कल्पनीयम् तत्रापि पुनः शब्दसमवायित्वं कल्पनीयम्, तथा चैतत्त्रयकल्पनापेक्षयाऽस्मन्मते समवायिमात्रकल्पना भेर्यादीनां लघीयसी' ति भेर्यादीनामेव शब्दो गुण इति चेत्, न ।
यदि भेर्यादीनामेव शब्दो गुणस्तदा शब्दप्रत्यक्षमवेन न स्यात् । श्रोत्रेन्द्रियस्य भेरीशब्देन समसम्बन्धात् । इन्द्रियाणां च वस्तुप्राप्यकारित्वनियमात् । असम्बद्धभेरीशब्दविषयकं प्रत्यक्षं कथं जन्येत ? यधुच्यते प्रथमतो भेयां शब्द उत्पन्नः, तेन च पूर्वरीत्या शब्दान्तरमुत्पाद्यते तेनापि शब्दान्तरम्, एवं क्रमेण श्रोत्रेन्द्रियशब्दे य उत्पन्नः शब्दः स एव श्रूयते तदा भेर्यतिरिक्तस्थले समवायिकारणत्वाभावात् शब्दोत्पत्त्यसम्भव एव बाधकः । तस्मात् भेर्याद्यतिरिक्तः शब्दप्रत्यक्षान्यथानुपपत्त्या व्यापको द्रव्यान्तरशब्दसमवायिकारणत्वेन स्वीकर्तव्यः । इति शब्दसमवायिकारणामाकाशमेव न मृदंगभेर्यादीति।
विभागजेति यथा संयोगेनाभिघाताख्यसंयोगेन शब्द उत्पाद्यते तथा विभागेनापि वं[श]दलद्वयादिविभागेनापि शब्द: जन्यते । वंशदलद्वयविभागस्तु शब्दं प्रति निमित्तकारणं, वंशदलद्वयाकाशविभागस्तु असमवायिकारणं, आकाशं तु समवायिकारणम् । वंशदलद्वयविभागेन यः प्रथमं चटचटेति शब्दः उत्पादितः स चातीन्द्रियः । तेन 'चानुकूलवातादिसंयोगेन चटचटेति शब्दान्तरमुत्पादितम् । तं प्रति वाय्वाकाशसंयोगोऽसमवायिकारणम्, शब्दो निमित्तकारणम् आकाशः समवायिकारणम् । शेषं पूर्ववत् ।
बुद्धिवदिति यथा बुद्धे विक्षणावस्थायित्वम् । ननु बुद्धः द्विक्षणावस्थायित्वे किं १. B adds द्वितीयशब्देन निमित्तकारणम् after शब्दोत्पादे. २. B omits च. ३. B omits तं. ४. B बुद्धेक्षणा. ५. B omits the reading between ननु....पदार्थत्वेन.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org