________________
तर्कतरङ्गिणी
२११
(१०-११) परत्वापरत्वे
दिक्कृतपरत्वमिति - यत्र पिण्डेऽयमस्मात्पर इति परत्वविषयिणी प्रतीतिर्जायते तस्य परत्वस्यापि पिण्ड: समवायिकारणम् । दिपिण्डसंयोगः परत्वं प्रत्यसमवायिकारणम् । अयमिति यदपेक्षया पिण्डे परत्वं प्रतीयते तत्संयुक्तभूतलादिसंयुक्तवानयम् यथा-एतत्पुरुषसंयुक्तोऽयं देशः तत्संयुक्तोऽग्रिमदेशः, 'तत्संयुक्तोऽप्यग्रिमदेशः इति परंपरया संयुक्तं यद्भूतलादि, तत्संयोगो यो वर्तते पिण्डे, तद्वानयमिति बुद्धिनिमित्तकारणम् । अपरत्वप्रतीतिः-अयमस्मादपरो निकट इति । 'परत्वधीरिति निमित्तमिति शेषः । शेषः । शेषः (पं) सुगमम् । (१२) गुरुत्वम् ।
द्वितीयपतनेति (त.भा.प्र. पृ. ८२) तथा च द्वितीयादिपतनासमवायिकारणं वेगोऽपि भवति । वेगादपि पतनसम्भवात् । अत आद्येति गुरुत्वस्यातीन्द्रियत्वात्पतनलक्षणकार्येण तदनुमानम् । (१३) स्नेहः ।
पर्यायेति चिक्कणताशब्दः स्नेहस्य पर्याय एव । तेन स्नेहत्वसामान्यवान् स्नेह इत्यर्थः । (१४) शब्दः ।
श्रोत्रेति - यदि गुणपदं न दीयते तदा शब्दत्वेऽति व्याप्तिः । अतः गुणपदम् । सन्निकर्ष विनेति । तथा च भेरीदेशो शब्दो भेरीदण्डसंयोगेनोत्पद्यते । श्रोत्रेन्द्रियं तु कर्णशष्कुल्यवच्छिन्नं नभत्यं वर्तते पुरुषदेशे । तथा च शब्दश्रोत्रेन्द्रिययोः परस्परपरमसम्बन्धेन श्रोत्रेन्द्रियेण शब्दज्ञानं न जननीयमित्याशङ्कार्थः ।
सिद्धान्तमाह-अत्रेति शब्दोत्पत्तिद्विधा भवति । एका वीचितरङ्गन्यायरूपा। - प्रथमतो जले यदा द्रव्यान्तर किञ्चित्प्रतिक्षिप्यते [तदा] तरङ्गोत्पत्तिर्जायते । तेन तरङ्गेण तरङ्गान्तरमुत्पाद्यते, तेन च तरङ्गान्तरमिति । एवं कृत्वा तीरपर्यन्तं क्रमेणैव तरङ्गोत्पत्तिर्जायते । तदा शब्दस्थलेऽपि यदा दिक्षु एक एव वायुर्वाति, तदा वीचितरङ्गन्याय एव ग्राह्यः । यदा च 'वाच्यन्तरमपि चलति, तदा कदम्बगोलकन्यायः । कुण्डलकारेण शब्दोत्पत्तिर्जायते । यथा कदम्बमुकुलस्य पत्राणि-चतुर्दिक्षु पत्राण्युत्पद्यन्ते तथा शब्दोत्पत्तिर्जायते । तथा च भेाँ शब्द उत्पद्यते । तदा भेरी भवति निमित्तकारणम्, भेरीदण्डसंयोगश्च निमित्तकारणम्, भेर्याकाशसंयोगश्चासमवायिकारणम् । दण्डोऽपि निमित्तकारणम् आकाशं तु समवा[यि]कारणम् । १. B omits the reading between तत्संपु.....देशः. २. This प्रतीक is not found in त. भा. प्र. ३. Following गोवर्धन, गुण. does not discuss the quality द्रव्यत्व. ४. A वाद्यान्तरमपि.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org