________________
२१०
तर्कतरङ्गिणी प्रतीयते, न संयोगाभावः तत्र संयोगस्य सत्त्वात्, इति संयोगस्यापि द्रव्यवद्व्याप्यवृत्तित्वम् ।
वस्तुतस्तु द्रव्यस्य व्याप्यावृत्तित्ववादिनाऽनया वक्ष्यमाणयुक्त्या द्रव्यस्य व्याप्यवृत्तित्वं साध्यते । यथा पर्वतो वह्निमानित्यत्र पर्वत्वावच्छेदेन प्रथमतो वह्निः सिध्यति । तदनन्तरं या प्रतीतिर्जायते 'नितम्बे हुताशनो न शिखरे' इति प्रतीत्या पर्वतावयवे 'च वयभाव प्रतीयते । पर्वतावयवे शिखरलक्षणे वह्निर्नास्त्येव । तथा च यद्यपि पर्वतावयवे नास्ति तथापि पर्वतरूपावयविनि वर्तते एवेति द्रव्यस्य व्याप्यवृत्तित्वम् । तथा संयोगस्यापि व्याप्यवृत्तित्वमेव । वृक्षः कपिसंयोगीति प्रतीतेर्वृक्षत्वावच्छेदेन कपिसंयोगविषयत्वादिति नवीनाःलीलावतीकाराः । इति संयोगस्य व्याप्यवृत्तित्वं स्थापितं नवीनैः।
नन्वात्मन्यपि आकाशसंयोगः स्वीकर्तव्यः, तस्यात्मनो व्यापत्वादिति चेत्, न । आत्मनि कर्मजः संयोगः आपाद्यते, संयोगजः संयोगो वा ? नाद्यः । उभयोनिष्क्रियत्वात् । नापि द्वितीयः । संयोगजसंयोगस्तु कारणाकारणसंयोगेनैव कार्याकार्यसंयोग उत्पद्यते । प्रकृते च तयोनित्यत्वेन कारणं किमपि नास्ति । तथेदं द्वयं परस्परं कार्यमपि न भवतीति न संयोगजसंयोगोऽपि तयोः । न च नित्य एव संयोगो वकतव्य इति वाच्यम् । प्रमाणाभावात् । नन्वनुमानमेव प्रमाणमिति यथा - आत्मा आकाश संयोगवान्, द्रव्यत्वात् घटवदिति चेत्, न । अप्रयोजकत्वात् । अनुकूलतर्कश्च कोऽपि नास्त्येव । तथा च विभुसंयोगो नास्त्येव । विभवश्च परस्परं विवक्ता एव तिष्ठन्ति ।
इति संयोगग्रन्थव्याख्या ।
(९) विभागः ।
विभागग्रन्थोऽपि सुकरमेव ।
ननु संयोगाभाव एव विभागोऽस्त्विति चेत्, न । विन्ध्याचलहिमाचलयोरपि विभक्तप्रत्ययः स्यात् । न चैवम् । ततः संयोगपूर्वक एव स इति न च संयोगाभाव स इति वाच्यम् । 'इमौ विभक्तौ' इति प्रतीतेः, संयोगज्ञानाभावेऽपि सत्त्वात् । तेन गुणान्तरं सिद्धम् । असंयुक्तयोरिति तथा च विन्ध्यहिमाचलयोः 'इमौ विभक्तौ' इति प्रतीतिः संयोगाभावविषया । तयोः परस्परं संयोगस्याजातत्वाद्विभागो नास्तीत्यर्थः ।
[इति विभागः ।]
१. B omits च. २. B omits अपि.
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org