________________
तर्कतरङ्गिणी
२०९ आश्रयो भवति घटः । तद्वृत्तिर्यः घटकाशसंयोगः तदधिकरणत्वं घटेऽऽकाशे च तिष्ठतीति । तथा चानेन सम्बन्धेन क्रियाया उभयत्र सत्त्वे न व्यभिचार इति दिक् ।
ननु संयोगस्याव्याप्यवृत्तित्वे द्वयणुकस्थले परमाणुद्वयसंयोगोऽव्याप्यवृत्ति न स्यात्, त(य)स्यावयवान्तरं भवति, तत्रैवाव्याप्यवृत्तित्वं संयोगस्य वक्तुं शक्यते इति चेत्, न । तत्र दिश एवावच्छेदकत्वात् । यद् दिगवच्छेदेन परमाणुद्वयसंयोगो वृत्तस्तदपेक्षयाऽन्यदिगवच्छेदेन तत्संयोगात्यन्ताभावस्य सत्त्वात् दिशामतीवसूक्ष्मत्वात् । संयोगस्याव्याप्यवृत्तित्वे किं प्रमाणमिति चेत्, प्रत्यक्षमेव । यथा मूलावच्छेदेन वृक्षे संयोगः, न शाखावच्छेदेनेति । नन्वनया प्रतीत्या सत्या संयोगस्याव्याप्यवृत्तित्वं नैयायिकैर्यदि साध्यते तदा नितम्बे हुताशनो न शिखरे', इत्यनया प्रतीत्या संयोगसम्बन्धेन द्रव्यस्याव्याप्यवृत्तित्वमायातु न च समवायसम्बन्धेनैव द्रव्यस्य साध्यव्याप्यवृत्तित्वं नैयायिकैः स्वीक्रियते इति वाच्यम्, समवायसम्बन्धेनापि तन्तुषु पटो न तदाशाष(तदंशुषु ?) इति प्रतीत्या तन्तुलक्षणस्वावयवेषु पटाभावप्रतीतेरुदयात्; समवायिसम्बन्धेनापि "द्रव्यस्याव्याप्यवृत्तित्वमायाति; यद्युच्यते "नितम्बे हुताशनो न शिखरे" इत्यनया प्रतीत्या हुताशनसंयोगाभाव एवं विषयीक्रियते, शिखरावच्छेदेनापि "वह्नः सत्त्वात्, यतः पर्वते वह्निरित्यनया प्रतीत्या शिखरावच्छेदेन वह्निः सिद्धः परं वह्निसंयोगस्तत्र नास्तीति द्रव्यस्याव्याप्यवृत्तित्वमिति चेत्, न ।
यद्यनयायुक्त्या द्रव्यस्य व्याप्यवृत्तित्वं साध्यते तदा वृक्षे कपिसंयोगो, न शाखायामित्यनया प्रतीत्या शाखावच्छेदेन संयोगस्य समवायिभावः प्रतीयते, परं संयोगस्तत्र तिष्ठत्येव । “अन्यथा वृक्षः कपिसंयोगी, इति प्रतीतिरेव न स्यात् । जायते च तथा प्रतीतिरिति संयोगस्यापि व्याप्यवृत्तित्वम् । न च शाखावच्छेदेन कपिसंयोगस्य समवायाभावेन संयोगवृत्तिरापादयितुं न शक्यते सम्बन्धव्यतिरेकेणासम्बन्धिना स्थातुं न शक्यते इति वाच्यम् । यथाऽऽकाशस्य भूतलादौ संयोगसत्त्वेन सम्बन्धी आकाशे नास्ति, तथा प्रकृते सम्बन्धव्यतिरेकेणापि सम्बन्धी कुत्रचित्स्थास्यति । तथा च यत्र सम्बन्धस्तिष्ठति तत्राकाशसम्बन्ध्यपि तिष्ठति । यत्र च सम्बन्धो नास्ति तत्र सम्बन्ध्यपि नास्तीति न नियमः । पूर्वोक्तव्यभिचारात् ।
ननु यद्युच्यते "यत्र सम्बन्धस्तत्र सम्बन्धी" इत्यत्र यद्यपि नियमो नास्ति तथापि यत्र सम्बन्धाभावस्तत्र सम्बन्ध्यभाव इति नियम एवेति चेत्, न । विपरीतमेव किं न स्यात् ? 'यत्र सम्बन्धस्तत्रैव सम्बन्धी' इति । तथा चाकाशस्यापि वृत्तिमत्त्वमायातीति । ततः इयं व्याप्तिरप्रयोजिका । तथा च शाखायां न संयोगः इत्यनया प्रतीत्या कपिसंयोगसमवायाभाव एव १. A omits नैयायिकैः. २. B om its यदि. ३. A दशाषु. ४. A -स्याव्याप्य.. ५. A omits एव. ६. B omits अपि. ७. A omits the reading between वढे:..........च्छेदेन. ८. B न वृक्षः. ९. B जायते तथा च. १०. B -जका. तर्क.-२७
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org